यमल
yamalaक्ली · neut.In 16 kośas: 16 synonym verses, 2 as a meaning of another word.
राजिर्लेखा ततिर्वीथी मालाल्यावलिपङ्क्तयः ।धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ ॥युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले ।
अनुष्टुप्
genderक्लीneut.
युग्मं युगं च युगलं द्वन्द्वं द्वितयं यमं यमलम् ।स्त्रीपुंसयोस्तु युग्मं मिथुनं परिकथ्यते सद्भिः ॥ ७०० ॥
उपगीतिः
genderक्लीneut.
द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः ।यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
स्त्री द्वयी द्वितयं द्वन्द्वे युगलं यमलं युगम् ।स्त्रीपुंसौ मिथुनं युग्मं द्वैतं च युतकं मिथु ॥ २०६ ॥
अनुष्टुप्
genderक्लीneut.
यमलं त्रितयं जातं समस्तं स्त्री त्रयी त्रयम् ।कल्पद्रौ केशवकृते फलिते नामसत्फलैः ।एकादशः सरभादिः प्रकाण्डः सिद्धिमागतः ॥ २०७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वंद्वेऽपत्ययुग्मं च युग्युगम् ।युगलं यमलं द्वंद्वं यमं संघाटिका द्वयम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
कनीयांश्च कनिष्ठश्चावरजः सूनुरित्यपि ।यमौ च यमलौ न स्त्री युगलौ जनकस्य तु ॥ ५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
द्वयं द्वितयमुभयं यमलं युगलं युगम् ।युग्मं द्वन्द्वं यमं द्वैतं पादयोः पातु जैनयोः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
genderक्लीneut.
धोरणी श्रेमिवीथ्यौ च द्वितयं युगलं समम्? ।यामलं यमलं द्वन्द्वं युग्मं द्वैतं यमं द्वयम् ॥ ३१४ ॥
अनुष्टुप्
genderक्लीneut.
सौरो वैवस्वतः सम्राड् यमराट् च परेतराट् ।परेतः समवर्ती च यमलो यम इत्यपि ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी ।समूहो निवहो व्यूहो वृन्दं चक्रं कदम्बकम् ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
यमलं यामलं युग्मं युगलं जकुटं युगम् ।यमं च द्वितयं चेति नामानि युगलस्य वै ॥ २५८७ ॥
अनुष्टुप्
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वन्द्वं द्वन्दमित्यपि कुत्रचित् ।द्वन्द्वञ्च यमलं युग्मं स्याद्युगं युगलञ्च युक् ॥
अनुष्टुप्
genderक्लीneut.
श्रेणिः श्रीणी च युग्मे तु युगवद्युगलं यमम् ।यमलं यामलं द्वन्द्वं दन्द्वं द्वैतं द्विती द्वयम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
स्युः खगोत्पतवारङ्ककण्ठाग्निव्योमचारिणः ।युगलद्वन्द्वयुग्मानि युगं यमलयामले ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
मिथुनं द्वितयं द्वैतं द्वयं द्वंद्वं युगं यमम् ।यमलं युगलं युग्मं युतकं च द्वयोर्गणे ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
यमल as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप यमकरभसस्तु वदत्येतत् संयंम यमलेऽपि च । अथो यमयितर्येतद् भेद्यवत् स्याद्द्वयोः पुनः ॥ १४६५ ॥ Nānārthārṇavasaṃkṣepa 4.1465
- शब्दरत्नाकर यममुख्यद्वाराभ्युपायेषु ताम्रे च वदने मुखम् । यमो यमलकीनाशसंयमेषु नियन्त्रणे ॥ १९८२ ॥ Śabdaratnākara 4.1.1982