कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उदर्चिस्

udarcisपुं · masc.

In 10 kośas: 7 synonym verses, 5 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.7 · p. 377
बर्हिः शुष्म उदर्चिः स्याद्बहुलो हव्यवाहनः ।अग्निहोत्रोऽग्निशुष्मा च बभ्रुः शुक्रश्च पावकः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.123 · p. 20
वह्निर्वैश्वानरो* ज्वलन-हुतभुजौ वीतिहोत्रोऽप्सुयोनिःशोचिष्केशः शिखावान्पवि-पचन-शुचि-ज्वाल-जिह्वानलाः स्युः ।सप्तार्च्चिः शुन्ध्यु-शुक्राद्यनि-वनि-दहनोदर्चिरर्चिष्मदग्नि-स्वाहानाथाश्रयाशानिलसख-शिखिनश्चित्रभानुः कृशानुः ॥ १२३ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.85 · p. 12
दवो द वो वसुर्दक्ष उदर्चिर्भास्करोऽपि च ।त्रिधामा च वदान्यश्च विष्करो वेसुरिस्तथा ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1920 · p. 315
उदर्चिश्चित्रभानुश्च बृहद्भानुः समन्तभुक् ।घृतार्चिर्घसुरिर्घासिर्धूमध्वजो धनञ्जयः ॥ १९२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध्व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.132 · p. 10
उदर्चिरपि सप्तार्चिः पावनः पावकोऽनलः ।हिरण्यरेताः हव्याशो हुताशो हुतभुक् शिखी ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.97 · p. 13
ज्वलनोदर्चिरर्चिष्मदाश्रयाशधनंजयाः ।हिरण्यरेतःस्रुग्जिह्वदमुनश्चित्रभानवः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.15 · p. 10
दहनो ज्वलनः शुष्मा रोहिताश्व उषर्बुधः ।शोचिष्केशस्त्रिधामाग्निरुदर्चिः पावकोऽनलः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास सपादः Dharaṇikośa 31.1.9 · p. 220
वायसी काकमाची स्यादभ्यासो निकटेऽपि च ।उदर्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे ।निःश्रेयसं शिवो मोक्षः श्वःश्रेयसं शिवं सुखम् ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.30 · p. 385
उदर्चिरग्नौ त्रिषु तूत्प्रभे स्या-त्सुरे पुनश्चातकके दिवौकाः ।सप्तार्चिरग्नौ त्रिषु घोरदृष्टौत्रिस्रोतसं प्राहुरिह द्युनद्याम् ॥ ३० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.278 · p. 70
उदर्चिदग्नौ त्रि पुनरुद्धतार्चिष्यथो नपि ।ऊर्दरं स्यादावपने भेद्यलिङ्गं तु दुर्बले ॥ २७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.67 · p. 169
उदर्चिः पावके वीरेऽनुजेतितरुणोद्रुवोः ।उल्लाघो गतरोगे च तरौ निपुणहृष्टयोः ॥ ६७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.42 · p. 296
अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः ।उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥
अनुष्टुप्