कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

सान्ताः · सपादः

॥ [इति षान्तवर्गः] ॥

॥ सपादः ॥

मासं स्यान्मासके चन्द्रे भाः स्यात्तु किरणेच्छयोः ।व्यासो मुनौ विस्तरे स्यादंसः स्कन्धविभागयोः ॥
31.1.1 · p. 219
अनुष्टुप्
प्रसूर्मातरि चाश्वायां त्रासो भीमणिदोषयोः ।शंसा तु वचनं वाञ्छा हिंसा चौर्यादिकं वधः ॥
31.1.2 · p. 219
अनुष्टुप्
वेधा विद्वानपि ब्रह्मा वर्चांसि रूपविट्त्विषः ।एनोऽपराधे दुरिते आगः पापापराधयोः ॥
31.1.3 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
बर्हिर्दर्भे हुताशे स्यादर्चिर्धाममयूखयोः ।स्रोतोऽम्बुवेगेन्द्रिययो रोकश्चाश्रयसद्मनोः ॥
31.1.4 · p. 219
अनुष्टुप्
वसुरश्वेऽश्चमेधाख्ये उषः सन्ध्याप्रभातयोः ।हविः सर्पिषि होतव्ये वपुर्भव्याकृतौ तनौ ॥
31.1.5 · p. 219
अनुष्टुप्
तरः स्याद्वेराबलयो रहः सुरतगुह्ययोः ।उरः श्रेष्ठमुरो वक्षः पयः क्षीरं पयो जलम् ॥
31.1.6 · p. 220
अनुष्टुप्
महो हर्षो महस्तेजो मनो … ।इष्वासो धन्विधनुषो रभसो वेगहर्षयोः ॥
31.1.7 · p. 220
अनुष्टुप्metre not read in every line
विकासः स्फुटने व्यक्ते मानसं हृदयं सरः ।राक्षसी गन्धद्रव्येऽपि सुरसा चौषधावपि ॥
31.1.8 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable)
वायसी काकमाची स्यादभ्यासो निकटेऽपि च ।उदर्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे ।निःश्रेयसं शिवो मोक्षः श्वःश्रेयसं शिवं सुखम् ॥
31.1.9 · p. 220
अनुष्टुप्metre not read in every line