दीर्घदर्शिन्
dīrghadarśinपुं · masc.In 13 kośas: 15 synonym verses.
छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभामुखः ॥ ३४३ ॥कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः ।प्रत्युत्पन्नमतिर्दूराद्यः पश्येद्दीर्घदर्श्यसौ ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णफलं हविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
दूरदृग्विदथः सूरी प्रज्ञालः प्रज्ञिलः पुनः ।स्याद्दीर्घदूरयोर्दर्शी कृतकर्मा विशारदः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.doubtful
दूरदर्शी दीर्घदर्शी विचक्षण-विपश्चितौ ।बुधानः कोविदो वृद्धः पण्डितः स्याद्विशारदः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
भवेत्सहृदयश्चाथ प्रगल्भः प्रतिभान्वितः ।प्रौढः प्रत्युत्पन्नमतिः पुनस्तत्कालबुद्धिमान् ।दूरदर्शी [ दीर्घदर्शी ] दीर्घपश्यश्च स स्मृतः ।सुदृक्सुदृश्वा सत्पश्यो भवेच्छोभनदर्शिनि ॥ ५ ॥
अनुष्टुप्
genderविadj.
सुधीर्विपश्चित्संख्यावान्प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णः पलंहतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
दूरदर्शी दीर्घदर्शी प्रत्युत्पन्नमतिः पुनः ।चिद्रूपो हृदयालुस्तु हृष्टः सहृदयस्तथा ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
पण्डिते तु कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी प्रदर्श्यतिदृगित्यपि ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
चर्मकारे शस्त्रधरो लोहकारे यनीयसः ।शिल्पिके दीर्घदर्शी च रजके घाटकः स्मृतः ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
genderपुंmasc.
प्रत्युत्पन्नमतिर्नाम तथा तत्कालधीरपि ।कथ्यते दीर्घदर्शी च दूरदर्शी बुधैः किल ॥ ५०९ ॥
अनुष्टुप्
genderविadj.
चिल्ल आतायि-वातापि-खभ्रान्ति-कण्ठनीडकाः ।लोहपृष्ठो दीर्घदर्शी गृघ्रो दाक्षाय्य इत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्ति (wrong syllable)
genderपुंmasc.
धीरो विपश्चित् संख्यावान् सूरिः सूरी विचक्षणः ।दूरदर्शी लब्धवर्णो दीर्घदर्शी कविः कृती ॥
अनुष्टुप्
genderविadj.
विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः ।धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥
शालिनी
genderपुंmasc.
दीर्घदर्शी दूरदर्शी लब्धवर्णो मनीष्यपि ।त्रिवर्गो धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.