विचक्षण
vicakṣaṇaपुं · masc.In 17 kośas: 17 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.
विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ३४१ ॥व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः ।निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ३४२ ॥कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
वसन्ततिलका
विद्वस्पुंसुधीपुंकविपुंविचक्षणपुंलब्धवर्णपुंज्ञपुंप्राप्तरूपपुंकृतिपुंकृष्टिपुंअभिरूपपुंधीरपुंमेधाविन्पुंकोविदपुंविशारदपुंसूरिपुंदोषज्ञपुंप्राज्ञपुंपण्डितपुंमनीषिन्पुंबुधपुंप्रबुद्धपुंव्यक्तपुंविपश्चित्पुंसंख्यावत्पुंसत्पुंशिक्षितपुंनिष्णातपुंनिपुणपुंदक्षपुंकर्महस्तपुंकर्ममुखपुंकृतहस्तपुंकृतमुखपुंकुशलपुंचतुरपुंअभिज्ञपुंविज्ञपुंवैज्ञानिकपुंपटुपुं
genderपुंmasc.
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः ।विचक्षणश्च मेधावी संख्यावान्मतिमान्मतः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
सुधीर्विपश्चित्सङ्ख्यावान्प्राज्ञो धीमान्विचक्षणः ।विद्वान् सन्कोविदः सूरिः मेधावी पण्डितो बुधः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णफलं हविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
दूरदर्शी दीर्घदर्शी विचक्षण-विपश्चितौ ।बुधानः कोविदो वृद्धः पण्डितः स्याद्विशारदः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
सुधीर्विपश्चित्संख्यावान्प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णः पलंहतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
प्राज्ञमेधाविनौ विद्वानभिरूपो विचक्षणः ।पण्डितः सूरिराचार्यो वाग्मी नैयायिकः स्मृतः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
विचक्षणः सुधीर्धीरो विपश्चिच्चतुरोऽपि च ।दक्षोऽभिज्ञो बुधो लब्धवर्णो वैज्ञानिकस्तथा ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
पण्डिते तु कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी प्रदर्श्यतिदृगित्यपि ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
मुखावर्तो मलानः स्याद्गलावर्तो विचक्षणः ।श्रीवृक्षकी वत्सावर्तः कततः कतमोऽपि च ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
कृष्टिर्विपश्चित्संख्यावान्दोषज्ञो ज्ञो विचक्षणः ।प्रवीणश्चतुरो विज्ञो विदग्धः कुशलः पटुः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
लब्धवर्णोऽभिरूपश्च धीमान् धीरः सुधीर्बुधः ।ज्ञः प्राज्ञश्च प्रबुद्धश्च व्यक्तो विचक्षणस्तथा ॥ ५०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderविadj.
धीरो विपश्चित् संख्यावान् सूरिः सूरी विचक्षणः ।दूरदर्शी लब्धवर्णो दीर्घदर्शी कविः कृती ॥
अनुष्टुप्
genderविadj.
अभिरूपः सुधीर्बोद्धा बुधो बिन्दुर्विचक्षणः ।विशारदश्च संख्यावान् आर्य उत्प्रेक्षकश्च सः ॥ २६८ ॥
अनुष्टुप्
genderपुंmasc.
विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ।सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
विचिकित्सा समासादि पूर्ववत् स्त्री विचक्षणा ।कृष्णशिम्बौ पण्डिते तु त्रिर्ना तु न विदारणा ॥ ५६९ ॥
अनुष्टुप्
meaningsपण्डित
विचक्षण as a meaning in nānārtha verses
- कोषकल्पतरु मंक्षुआह क्षेपनियोगयोरथ मतावाहो उताहो उभौ पृच्छायां च विचारणेऽप्यथ परिक्लेशे प्रकर्षेऽह हा । हिंसोपक्रमकुत्सनेषु विबुधाः संकीर्तयन्त्यादह प्रोक्तं मंक्षु विचक्षणे अति[246b]शये तत्त्वे तथाति द्रुते ॥ २९ ॥ Koṣakalpataru 5.1.29
- नानार्थार्णवसंक्षेप प्राप्तरूपस्यात् तु पक्षचरो यूथभ्रष्टेऽप्येकचरेऽपि च । प्राप्तरूपः सुन्दरे स्यात् तथैव च विचक्षणे ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 6.21
- शब्दरत्नाकर अभिरूपअभिरूपः सुरूपः स्याद्विश्रुते च विचक्षणे । अवदातः सिते शुद्धेऽप्ययुगास्त्रौ हरिस्मरौ । अहिशत्रुः खगाधीशे नकुले नाकनायके ॥ २१९१ ॥ Śabdaratnākara 4.1.2191