कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सत्

satपुं · masc.

In 15 kośas: 13 synonym verses, 10 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.6 · p. 18
विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ३४१ ॥व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः ।निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ३४२ ॥कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
वसन्ततिलका
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.5
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ।धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.332 · p. 39
धीरो धीमान् लब्धवर्णो विपश्चिद्,वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।सूरिः प्राज्ञः पण्डितः सन्मनीषी,ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
शालिनी
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.333 · p. 96
सुधीर्विपश्चित्सङ्ख्यावान्प्राज्ञो धीमान्विचक्षणः ।विद्वान् सन्कोविदः सूरिः मेधावी पण्डितो बुधः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.4 · p. 27
तद्भेदे राहुतश्च स्याद्दुनेदारस्तु भूपतिः ।विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.47 · p. 73
अनूचानः प्रवचने सांगे धीती गुरोश्च यः ।विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.11 · p. 54
शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः ।अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः ।धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि-प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः ।ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्-संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥
स्रग्धराmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.55 · p. 71
सत्यं तथ्यं भूतं सम्यगृतं स्यात्समीचीनम् ।सदथाव्ययं यथार्थं यथातथं स्याद्यथास्थितं च मतम् ॥ ५५ ॥
उद्गीतिः
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.148 · p. 27
द्राविलः पक्षिलः स्वामी मल्लनागोऽङ्गुलोऽपि च ।विद्वान्सन्कोविदः सूरिर्मेधावी पण्डितो बुधः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.51 · p. 8
वाचंयमोऽनगारश्च निर्ग्रन्थः श्रमणो मुनिः ।ऋषिर्यतिर्यती साधुः मुमुक्षुर्भिक्षुकश्च सन् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.11 · p. 111
मनीषी सन् सुधीर्वेदी बुद्धो बृद्धो विधानगः ।दोषज्ञः प्रज्ञिलो धीमान् ज्ञः प्राज्ञः कृष्णिरित्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.267 · p. 36
विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः ।धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥
शालिनी
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.234 · p. 102
विद्वान् सन् कोविदः सूरिर्मेधावी पण्डितो बुधः ।सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.83
सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तश्लोकः Dharaṇikośa 15.3.1 · p. 81
सन्नित्यर्चिते साधौ विद्यमानप्रशस्तयोः ।सती पतिव्रता स्त्री स्यात्सती गौरी च कीर्तिता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स (syllables merged)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.11 · p. 206
शङ्खौषधौ [संस्तु] सदस्यपूज्य-साधुप्रशस्येष्वपि विद्यमाने ।स्त्रियां त्वपर्णाकुलयोषितोः स्या-देतस्तु किर्मीर उपागते च ॥ ११ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.20 · p. 9
धने तु नप् पुमान् ज्ञातौ तकारान्तं तु सत् त्रिषु ।सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते बुधे ॥ २० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.21 · p. 9
शोभने च सती तु स्त्री तुवरीसंज्ञभेषजे ।लक्ष्मीपतिव्रताशैलतनयासु चतुर्ष्वथ ॥ २१ ॥
अनुष्टुप्
meaningsशोभन
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.22 · p. 9
शब्देऽपि कश्चित् सच्छब्दस्तस्य लिङ्गं विचार्यताम् ।सज्जनस्त्वेनमाम्नासीन्नक्षत्रे तन्नपुंसकम् ॥ २२ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.41 · p. 5
सच्छब्दः पूजिते सत्ये साधूशोभनयोः सति ।स्वं निजे द्रविणे होऽथ वीरे रुद्रे भयंकरे ॥ ४१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.63 · p. 217
सत्प्रशस्ते विद्यमानेऽत्यादृते साधुसत्ययोः ।धीरेऽपि च वाच्यलिङ्गं स्यात्सतीसाध्वीमयो(?) स्त्रियाम् ॥
metre not recognisednearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2248 · p. 272
त्रिषु स्वीये नरि ज्ञातौ स्वो धने तु नपुंसके ।साधौ श्रेष्ठे वर्तमाने सत्ये चाभ्यर्हिते च सत् ॥ २२४८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अभिधेयवल्लिङ्गाध्यायः Vaijayantī 8.4.16 · p. 276
सन् सत्येऽभ्यर्हिते श्रेष्ठे साधीयसि भवत्यपि ।किं प्रश्नाक्षेपकुत्सानां वितर्कस्य च गोचरे ॥ १६ ॥
अनुष्टुप्

सत् as a meaning in nānārtha verses