कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दूरदर्शिन्

dūradarśinपुं · masc.

In 13 kośas: 16 synonym verses, 1 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.6
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.301 · p. 93
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।शशादनो वर्तुलाक्षः श्येनोऽपि च निगद्यते ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.5 · p. 27
सुधीर्विपश्चित् संख्यावान् प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णफलं हविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.50 · p. 74
दूरदृग्विदथः सूरी प्रज्ञालः प्रज्ञिलः पुनः ।स्याद्दीर्घदूरयोर्दर्शी कृतकर्मा विशारदः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.85 · p. 327
तत्रादौ प्रतुदा गृध्रस्तार्क्ष्यश्चिल्लो विजृम्भणः ।आतायी शबली दूरदर्शी स्याद्भुजगान्तकः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.87 · p. 327
अपि संघातचारी स्यात् मेरुतुण्डो महाखगः ।श्येनस्तरस्वी दाक्षाय्यो दूरदर्शी शशादनः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.14 · p. 54
दूरदर्शी दीर्घदर्शी विचक्षण-विपश्चितौ ।बुधानः कोविदो वृद्धः पण्डितः स्याद्विशारदः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.5 · p. 1
भवेत्सहृदयश्चाथ प्रगल्भः प्रतिभान्वितः ।प्रौढः प्रत्युत्पन्नमतिः पुनस्तत्कालबुद्धिमान् ।दूरदर्शी [ दीर्घदर्शी ] दीर्घपश्यश्च स स्मृतः ।सुदृक्सुदृश्वा सत्पश्यो भवेच्छोभनदर्शिनि ॥ ५ ॥
अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.149 · p. 27
सुधीर्विपश्चित्संख्यावान्प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णः पलंहतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.11 · p. 102
दूरदर्शी दीर्घदर्शी प्रत्युत्पन्नमतिः पुनः ।चिद्रूपो हृदयालुस्तु हृष्टः सहृदयस्तथा ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.204 · p. 51
पण्डिते तु कृती कृष्टिर्लब्धवर्णो विचक्षणः ।दूरदर्शी दीर्घदर्शी प्रदर्श्यतिदृगित्यपि ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.509 · p. 65
प्रत्युत्पन्नमतिर्नाम तथा तत्कालधीरपि ।कथ्यते दीर्घदर्शी च दूरदर्शी बुधैः किल ॥ ५०९ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.10 · p. 111
धीरो विपश्चित् संख्यावान् सूरिः सूरी विचक्षणः ।दूरदर्शी लब्धवर्णो दीर्घदर्शी कविः कृती ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.267 · p. 36
विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः ।धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥
शालिनी
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.30 · p. 28
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।दाक्षाय्यश्चाप्यथ श्येनो वर्तुलाक्षः शशादनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.235 · p. 102
दीर्घदर्शी दूरदर्शी लब्धवर्णो मनीष्यपि ।त्रिवर्गो धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.283 · p. 50
अत्रापि पूर्ववत् सादि दूरदर्शी पुनर्द्वयोः ।गृध्रसंज्ञखगे त्रिस्तु (दूर)दर्शमनीषिणोः ॥ २८३ ॥
अनुष्टुप्metre not read in every line