अन्तिम
antimaवि · adj.In 11 kośas: 11 synonym verses, 1 as a meaning of another word.
एकात्तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ १४५८ ॥पौरस्त्यं प्रथमं पूर्वमादिरग्रमथान्तिमम् ।जघन्यमन्त्यं चरममन्तपाश्चात्त्यपश्चिमे ॥ १४५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
genderविadj.
आद्यमादिममन्त्यं स्यादन्तिमं चाग्र्यमग्रिमम् ।मध्यमं मध्यमीयं च मध्यन्दिनमुदाहृतम् ॥ ७७५ ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमोन्तोऽस्त्री जघन्यश्चरमोन्तिमः ।पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥ १४० ॥
अनुष्टुप्
genderविadj.
माध्यंदिनमथान्तोऽस्त्री जघन्यमवरान्तिमे ।पश्चिमापर-पाश्चात्त्याः पश्चात्तु चरमेऽव्ययम् ॥ ९६ ॥
अनुष्टुप्
genderविadj.
जिह्मभुग्ने अरालं चादिमादी प्रथमः पुनः ।पौरस्त्यमग्र्यपूर्वे च जघन्यान्तेऽन्तिमं मतम् ॥ ३४५ ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमः पूर्व आदिराद्यादिमोऽग्रिमः ।जघन्यः पश्चिमोऽन्त्यश्च पाश्चात्त्यश्चरमोऽन्तिमः ॥ ९९ ॥
अनुष्टुप्
genderविadj.
अन्त्यमन्तिममन्तश्च पाश्चात्यं पश्चिमं पुनः ।जघन्यं चरमं चेति नामानि चरमस्य वै ॥ २६५३ ॥
अनुष्टुप्
genderविadj.
चरमेऽन्त्यमन्तिमा-ऽन्तावन्तमं पश्चिमान्वितम् ।अपश्चिमं स्वरूपे नञ् पाश्चात्यं पश्च-पश्चिमात् ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्त्य (wrong syllable)
genderविadj.
आदिराद्योऽग्रिमः पूर्वः पौरस्त्यः प्रथमादिमौ ।अन्तो जघन्यः पाश्चात्यश्चरमोऽन्त्योऽन्तिमोऽपरः ॥ १६७९ ॥
अनुष्टुप्
genderविadj.
संवर्तको नृसिंहश्च हृदयान्मुखसंस्थितः ।अनन्तः परमात्मा च वज्रकायोऽन्तिमः क्ष-कः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
अग्र्यं त्वग्रिममग्रस्थं मध्यमीयं तु मध्यमम् ।अन्त्ये जघन्यपाश्चात्यचरमान्तिमपश्चिमाः ॥ ७७ ॥
अनुष्टुप्
genderविadj.
अन्तिम as a meaning in nānārtha verses
- वैजयन्ती उत्तमउदूढावूढपृथुलावुत्तमौ प्रवरान्तिमौ । महत्युदात्त उच्चोक्तेऽप्युपोढो निकटोढयोः ॥ ६ ॥ Vaijayantī 7.4.6