पौरस्त्य
paurastyaवि · adj.In 10 kośas: 11 synonym verses.
एकात्तानायनसर्गाग्राण्यैकाग्रं च तद्गतम् ।अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ १४५८ ॥पौरस्त्यं प्रथमं पूर्वमादिरग्रमथान्तिमम् ।जघन्यमन्त्यं चरममन्तपाश्चात्त्यपश्चिमे ॥ १४५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
genderविadj.
पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमोन्तोऽस्त्री जघन्यश्चरमोन्तिमः ।पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥ १४० ॥
अनुष्टुप्
genderविadj.
पुरोभवस्तु पौरस्त्यः पौरस्तः पौरतोऽपि सः ।आरातीयस्त्वन्ति[168a]कभूः क्वत्यः कुत्रत्य इत्युभौ ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
पुंस्यादि-पूर्व-पौरस्त्य-प्रथमे चाद्य आदिमः ।अग्रं च मध्यमीयं तु मध्यमं माध्यमं तथा ॥ ९५ ॥
अनुष्टुप्
genderविadj.
जिह्मभुग्ने अरालं चादिमादी प्रथमः पुनः ।पौरस्त्यमग्र्यपूर्वे च जघन्यान्तेऽन्तिमं मतम् ॥ ३४५ ॥
अनुष्टुप्
genderविadj.
पौरस्त्यः प्रथमः पूर्व आदिराद्यादिमोऽग्रिमः ।जघन्यः पश्चिमोऽन्त्यश्च पाश्चात्त्यश्चरमोऽन्तिमः ॥ ९९ ॥
अनुष्टुप्
genderविadj.
आद्यमादिममादिश्च पौरस्त्यं प्रथमं पुनः ।पूर्वमग्रं तथा प्राक् च वाक्ये प्रथमवाचकः ॥ २६५२ ॥
अनुष्टुप्
genderविadj.
प्रथमे पूर्वपौरस्त्यौ भवेदादिः पुमानिह ।अन्तोऽस्त्रियान्तु चरमं स्याज्जघन्यान्त्यपश्चिमम् ॥
अनुष्टुप्
genderविadj.
आदिराद्योऽग्रिमः पूर्वः पौरस्त्यः प्रथमादिमौ ।अन्तो जघन्यः पाश्चात्यश्चरमोऽन्त्योऽन्तिमोऽपरः ॥ १६७९ ॥
अनुष्टुप्
genderविadj.
जघन्यं तु कुपूयं स्यादसारं लघु फल्गु च ।पुंस्यादिराद्यपौरस्त्यप्रथमप्रमुखादिमाः ॥ ७६ ॥
अनुष्टुप्
genderविadj.