आज्य
ājyaक्ली · neut.In 17 kośas: 18 synonym verses, 4 as a nānārtha head word, 8 as a meaning of another word.
genderक्लीneut.
लवणक्षीरदध्याज्यसुरेक्षुस्वादुवारयः ।
अनुष्टुप्
genderपुंmasc.
genderक्लीneut.
तक्रमरिष्टमुदश्विद्दण्डाहतकालशेयमथितानि ।द्रप्सं दध्यघनं स्यात्सर्पिर्घृतमाज्यमाघारः ॥ २७५ ॥
आर्या
genderक्लीneut.
कृते स्तो ब्रह्मरुद्राभ्यां नाम्नि ब्राह्मक-रौद्रके ।अजगोत्रापत्यमाज्यो द्वयोराजं भवेत्त्रिषु ॥ ६३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
आधार आज्यं खजपमुशिक्तामरमित्यपि ।हैयंगवीनं तु नवं तक्रं त्वस्त्री च कट्वरः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderक्लीneut.
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
स्नेहो तिलानां तैलं स्यादन्येषां नामपूर्वकम् ।घृतमाज्यं हविः सर्पिः कौम्भं त्वाज्यं दशाब्दकम् ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
सक्तोऽक्षद्यूतपानेषु विचित्रा शब्दपद्धतिः ।सर्पिर्हैयङ्गवीनाज्यं दुग्धं क्षीराऽमृतं पयः ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
हविष्यं हविराघारमाज्यं क्षीरोद्भवं दधि ।गोरसोऽथाघने तत्र क्लीवे द्वे द्रप्सपत्रले ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
फाण्टं तक्रं दधिसुता नवनीतं सुधासितम् ।आज्यं रेतो घृतं हव्यं तेजो ज्योतिः सुधान्तिकम् ॥ २५१ ॥
अनुष्टुप्
genderक्लीneut.
घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् ।उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderक्लीneut.
लवणक्षीरदध्याज्यसुरेक्षुस्वादुसागराः ।भारताख्यं किंपुरुषं हरिवर्षमिलावृतम् ।रम्यकाख्यं पञ्चमकं खण्डं षष्ठं हिरण्मयम् ॥ १२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable); pāda 3, syllable 5 प (wrong syllable)
genderपुंmasc.
घृतमाज्यं हविः सर्पिः तथाऽऽधारो हविष्यकम् ॥ ६०८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
घृतं हविः सर्पिराज्यं नवनीतं नवोद्धृतम् ।ह्यो गोदोहोद्भवं घृतं हैयङ्गवीनमुच्यते ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् ।पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥
अनुष्टुप्
genderक्लीneut.
घृतमाज्यं हविः सर्पिः कौंभं त्वाज्यं दशाब्दिकम् ।हैयंगवीनं पीथं च नवनीतं च तक्रजम् ॥ १३८ ॥
अनुष्टुप्
genderक्लीneut.
कालायसे सुवर्णे च स्यादाज्यं तु घृते युधि ।श्रीवेष्टाह्वयनिर्यासे स्तोत्रेषु च चतुर्ष्वपि ॥ १० ॥
अनुष्टुप्
स्युर्बहिष्पवमानाद्यान्यूर्ध्वान्यध्वरकर्मणाम् ।उन्मानभेदे च पलसंज्ञेऽप्येतदपाठिषुः ॥ ११ ॥
अनुष्टुप्
doubtful
आज्य as a meaning in nānārtha verses
- धरणिकोश घृतघृतमाज्यं घृतं तोये युतं न्याये च संहते । रक्तः क्रीडारते रक्ते शुक्तं स्यात्परुषाम्लयोः ॥ Dharaṇikośa 15.1.7
- कोषकल्पतरु घृतरतं घृतं त्वाज्यपयःसु न स्त्री दीप्तेऽन्यवत्स्यादृतमुञ्छवृत्तौ । सत्ये च तोये परवत्प्रदीप्त- सपूज्ययोश्चाथ कृतं युगे स्यात् ॥ ३ ॥ Koṣakalpataru 6.16.3
- नानार्थार्णवसंक्षेप सर्पिस्आज्ये च सर्पिः स्नानं तु स्नानीयाप्लवयोरथ । साम प्रगीतमन्त्रेषु सान्त्वसामप्रभेदयोः ॥ ७१ ॥ Nānārthārṇavasaṃkṣepa 2.3.71
- नानार्थार्णवसंक्षेप घृतत्रि तु बह्वाशिनि घृतं त्वाज्ये तोये च नप् परे । पुंस्यप्याहुर्घृणिस्तु स्यान्ना स्त्रियामपि केचन ॥ ३८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.388
- नानार्थार्णवसंक्षेप तनूनपात्तनूनपात् तु यास्कोक्त आज्ये चाग्नौ च निश्चितः । तिरस्कारः परिभवेऽप्यन्तर्थे?चारतः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 6.59
- परमानन्दीयनाममाला घृतघृतं दीप्तौ जलेऽथाज्ये घृणा निन्दा दया स्मृता । घटा गोष्ठ्यां गजश्रेणौ घृणिर्ज्वालांशुवीचिषु ॥ १७३ ॥ Paramānandīyanāmamālā 5.10.173
- शिवकोष घृतकृत्तिर्भूर्जे त्वचायां स्त्री घृतमाज्ये जलेऽपि च । जातिर्जातीफले धात्र्यां मालत्यां रक्तचूर्णके ॥ १७८ ॥ Śivakoṣa 12.1.178
- वैजयन्ती घृतक्षेत्रं गृहे पुरे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतं त्वाज्येंऽबुसर्पिषोः ॥ ६ ॥ Vaijayantī 6.3.6