नवनीत
navanītaक्ली · neut.In 15 kośas: 14 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.
ह्योगोदोहोद्भवं हैयंगवीनं शरजं पुनः ॥ ४०७ ॥दधिसारं तक्रसारं नवनीतं नवोद्धृतम् ।
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
ऊधस्यं क्षीरं स्याद्दुग्धं स्तन्यं पयश्च पीयूषम् ।दधिसारं नवनीतं ब्रुवते हैयङ्गवीनं च ॥ २७४ ॥
metre not recognised
genderक्लीneut.
हैयङ्गवीनं सरजं क्षीरोत्थं दधिसंभवम् ।मन्थजं नवनीतं स्यात्सारोत्थाभ्यञ्जनं घृतम् ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
अयं मुण्डो मुण्डितशिराः ।नितम्बः पश्चाद्भागः स्त्रीकट्याः । ह्रस्वशाखामूलको वृक्षः क्षपः । गुल्मः शाखापत्रप्रावरणः । सानुः पर्वतैकदेशः । अङ्कश्चिह्नम् । वंशोऽन्वयः । पूगः क्रमुकः । शङ्खः कम्बुः । रथः स्यन्दनः । नपुंसकाधिकारात् जघनादयो नपुंसके स्युः । इदं जघनं कटिप्रदेशः । अम्बरमाकाशं वस्त्रं च । फलं वृक्षादीनाम् । मूलं शिफा । अङ्गमवयवः ।क्षीरोदस्विन्नवनीतवर्षकुण्डाण्डघृतभगगगनानि ।विद्यान्नपुंसकान्योदनश्च पुंसि स्त्रियां ज्या च ॥ ३९ ॥
metre not recognised
genderक्लीneut.
हैयंगवीनं तक्रेजं नवनीतं घृताकरम् ।दधि विप्रप्रियं हृद्यं श्रीघनं क्षीरजं शरः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
नवनीते तक्रसारं दधिसारनवोद्धृते ।घोलारिष्टे कालशेयं दण्डाहतमपि स्मृतम् ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
नवनीते च संप्रोक्तं नवनीतं नवोद्धृतम् ।दण्डाहतं कालशेयमरिष्टं नूतनं सनम् ॥ ४७८ ॥
अनुष्टुप्
genderक्लीneut.
फाण्टं तक्रं दधिसुता नवनीतं सुधासितम् ।आज्यं रेतो घृतं हव्यं तेजो ज्योतिः सुधान्तिकम् ॥ २५१ ॥
अनुष्टुप्
genderक्लीneut.
घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् ।उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderक्लीneut.
genderक्लीneut.
घृतं हविः सर्पिराज्यं नवनीतं नवोद्धृतम् ।ह्यो गोदोहोद्भवं घृतं हैयङ्गवीनमुच्यते ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
क्लीबे तु नवनीतं स्याद् यद्दध्नोऽभिनवोद्धृतम् ।तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम् ॥ ७७० ॥
अनुष्टुप्
genderक्लीneut.
घृतमाज्यं हविः सर्पिः कौंभं त्वाज्यं दशाब्दिकम् ।हैयंगवीनं पीथं च नवनीतं च तक्रजम् ॥ १३८ ॥
अनुष्टुप्
genderक्लीneut.
नवनीतं तु शण्डे स्याद् घृतप्रकृतिवस्तुनि ।अत्रापि पूर्ववत् सादि नमस्कारी पुनः स्त्रियाम् ॥ २९८ ॥
अनुष्टुप्
meaningsघृतप्रकृतिवस्तू
नवनीत as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप तेजस्विस्तारे च शरीरे च तेजस्तु बलतोययोः । नवनीतेऽनले धर्मे ज्योतिष्यर्चिषि रेतसि ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 2.3.29
- परमानन्दीयनाममाला तेजस्नवनीते बले वह्नौ तीक्ष्णं तिग्मे विषे रणे । तूणी नील्यां निषङ्गे च तल्पं शय्याकलत्रयोः ॥ २२३ ॥ Paramānandīyanāmamālā 5.15.223
- शब्दरत्नाकर तेजस्धर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः । रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः । त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥ Śabdaratnākara 4.1.1933
- वैजयन्ती तेजस्नवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च । द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥ Vaijayantī 6.3.15
- वैजयन्ती पीथपोत्रं मुखाग्रदेशे स्यात्सूकरस्य हलस्य च । नवनीतं पयः पीथं बर्हं पर्णशिखण्डयोः ॥ २२ ॥ Vaijayantī 6.3.22