कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मथित

mathitaक्ली · neut.

In 14 kośas: 14 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.409 · p. 20
तक्रं पुनः पादजलं मथितं वारिवर्जितम् ॥ ४०९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.53
तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.275 · p. 33
तक्रमरिष्टमुदश्विद्दण्डाहतकालशेयमथितानि ।द्रप्सं दध्यघनं स्यात्सर्पिर्घृतमाज्यमाघारः ॥ २७५ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.235 · p. 158
मार्जिता सा रसाला स्याच्छिखरिण्यथ गोरसः ।सरसं निर्जलं घोलं मथितं रसवर्जितम् ॥ २३५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 283
दधिसारः शरोत्थं चाथार्घाम्बूदश्विदन्तिमे ।निर्जलं मथितं घोलो गोरसोऽरिष्टमित्यपि ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 123 · p. 62
उदश्विन्मथितं तक्रं कालशेयं पिबेद्गुरुः ।प्रायो वयो दशानेहा पूर्णं यौवनकं विदुः ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.78 · p. 111
मथितं जलहीनं तु सार्पिष्कं दाधिकं मतम् ।घृतेन तु तथा दध्ना संस्कृतं वटकादिकम् ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.480 · p. 87
तस्मिन्नर्धाम्बुसहिते चोदश्विन्मथितं द्वयम् ।मतिमस्तु( ?) समाम्नातं दध्युत्पन्ननवोद्धृते ॥ ४८० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.51 · p. 39
घृतमाज्यं हविः सर्पिः नवनीतं तु म्रक्षणम् ।उदश्विन्मथितं तक्रमारनालं तु काञ्जिकम् ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.613 · p. 80
जलं विनैव मथितं मथितं कथ्यते दधि ।सर्पिषा संस्कृतं द्रव्यं सार्पिष्कं कथ्यते जनैः ॥ ६१३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.113 · p. 145
मथितन्तु निरम्बु स्यात् त्रितयं दधिसम्भवम् ।मस्तुर्ना दधिजे मण्डे पेयूषस्तु नवं पयः ।स्त्रीक्षुत् क्षुधा वुभुक्षा स्यादशनायाः च सा स्मृता ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.776 · p. 99
बोलो दण्डाहतं कालशेयारिष्टे च गोरसे ।मथितमुदश्वित्तक्रं निर्जलमर्धाम्बु पादाम्बु ॥ ७७६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1773 · p. 214
अमहीयुर्दीर्घतमा मारीचांहोमुचौ लुशः ।मन्युदेवापिकर्णश्रुद्वरुणा मथितः सुदाः ॥ १७७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्दी (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.150 · p. 135
निरंबु घोलं मथितमुदश्वित्तु जलार्धकम् ।
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.89 · p. 217
ग्रन्थितमुक्तं गुम्फितहिंसितयोः स्यात्समाक्रान्ते ।मथितं निर्जलतक्रे निघृष्ट आलोडिते परवत् ॥ ८९ ॥
उपगीतिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1349 · p. 165
मन्दिरं तु पुरे गेहे क्लीबमब्धौ तु पुंस्ययम् ।मथितं तु क्लीबलिङ्गं निर्जले गोरसे कृते ॥ १३४९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1350 · p. 165
त्रिस्तु मन्थतिमथ्नातिकर्मभूतेषु वस्तुषु ।मन्दारस्तु पुमान् देववृक्षभेदेऽर्कनाम्नि च ॥ १३५० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.125 · p. 221
महती वल्लकीभेदे तत्त्वे ना वड्रकेन्यवत् ।मथितं लोडिते घृष्टे त्रिषु क्लीबन्तु घोलके ॥
अनुष्टुप्