रत्न
ratnaक्ली · neut.In 19 kośas: 23 synonym verses, 8 as a nānārtha head word, 20 as a meaning of another word.
genderक्लीneut.
genderक्लीneut.
स्फटिकः सूर्यकान्तः स्यादर्काश्मा दहनोपलः ।रत्नं वसु मणिः सर्वं सर्वं लोहं च तैजसम् ॥ १७६ ॥
अनुष्टुप्
genderक्लीneut.
प्रथमजिनभवा-ऽघोषा विश्वेदेवास्त्रयोदश भवन्ति ।विद्यास्थान-स्वर-भुवन-रत्न-पुरुषान्वय-स्वप्नाः ॥ २३ ॥
आर्या
genderक्लीneut.
वेधआदीन्विना सान्तं द्विस्वरं मन्नकर्त्तरि ।धनरत्ननभोऽन्नानां मनसो घुसृणस्य च ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
द्वयोर्मणि[18a]श्चारुशिला रत्नं वसु तु न द्वयोः ।सम्यकस्त्वाकरे शुद्धो मण्यादिर्भेद्यलिङ्गकः ।हीरकः शिखरी पुंसि दधीच्यस्थि वरारकम् ॥ ७१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
मेधिर्गवेधुः कर्कन्धुस्तद्वज्जम्ब्वां सुदर्शनः ।रत्नरत्नी मुनिर्योनिर्हनुः पृश्न्यशनिर्मनुः ॥ २६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
एते स्त्रियां भवन्ति । इयं मेधा धारणाशक्तिः । रसना शक्तिर्मेखला च ।निद्रा सुप्तिः । तन्द्रा आलस्यम् । तन्त्री वाद्यविशेषः । मञ्जिष्ठा रागद्रव्यम् । स्यातां भवेतामित्यर्थः । इयं मदिरा सुरा । मन्दुरा वाजिशाला । कृशरा तिलयवागूः । अक्षैर्दीव्यते अक्षग्रहणं वादित्रसम्बन्धनिवृत्त्यर्थम् । वाद्यं दुन्दुभिरित्यर्थः ।धान्यद्विदलांशुकवितानवलयरत्नमिथुनश्मशानानि ।बिसतिमिराण्यपि विद्यान्नपुंसकेऽग्रखे चैव ॥ ६४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 वे (syllables merged)
genderक्लीneut.
मन्दप्रियं च कठिनमयस्कान्ते त्वयोमणिः ।रत्नं तु रत्नसामान्ये मणिर्माणिक्यमेव च ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
वसुरत्ने मणिर्भेदा इन्द्रनीलादयो मताः ।वालवायजवैडूर्ये गारुत्मतहरिन्मणी ॥ ३३९ ॥
अनुष्टुप्
genderक्लीneut.
अम्भो घनरसः पुंसि वाः क्लीबे रत्नमुच्यते ।अगाधमतलस्पृक् चास्थागमस्ताघमेव च ॥ ३४७ ॥
अनुष्टुप्
genderक्लीneut.
रत्नाङ्गणनभोगूथशुक्तान्नतमसामपि ।हृषीकशुभपिच्छादिधनदारुमनोहृदाम् ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
रत्नं मणिर्ललामाख्यो हीरको वज्रनामकः ।नीलं गारुत्मतं पद्मरागं शोणललामकम् ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
रत्नं मणौ चाकचक्यं चञ्चत्कः परिकीर्तितः ।मौक्तिकं शौक्तिकेयं स्याच्छुक्तिसम्भवमौक्तिके ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
रत्नं वसु मणिस्तस्य भेदा मरकतादयः ।वैडूर्यवज्रमाणिक्यनीलमौक्तिकविद्रुमाः ॥ १७५ ॥
अनुष्टुप्
genderक्लीneut.
वसु रत्नं मणिश्चैव माणिक्यमपि मन्यते ॥ १८४० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अश्मजातौ च मुक्तादौ क्लीबे रत्नं मणिर्द्वयोः ।सुवर्णं काञ्चनं हेम हिरण्यं स्वर्णहाटकम् ।गाङ्गेयं कनकं भर्म शातकुम्भञ्च कर्वुरम् ॥
अनुष्टुप्
genderक्लीneut.
शुक्तिरिक्षुश्च मुक्तानां नवैते जन्मभूमयः ।वज्राद्यश्मसु मुक्तादावपि रत्नं मणिर्द्वयोः ॥ १५० ॥
अनुष्टुप्
genderक्लीneut.
पशुश्चरिः शुद्धजङ्घो रत्नं चारुशिला मणिः ।स्वाध्यायी पत्तनवणिग्धोटाबुक्कोश्वविक्रयी ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
धूर्तमण्डूरसिंहाणविष्ठाख्यानि त्वयोमले ।लोहं तु तैजसं सर्वं वसु रत्नं मणिर्न षण् ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
यज्ञोपवीतोपवीते ब्रह्मसूत्रोत्तरीययोः ।गंभीरं गहनं रत्नं गह्वरं शरणं वपुः ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
रत्नं स्वजातिश्रेष्ठे च माणिक्यादिमणावपि ।समाम्नाये समाम्नासीद्धने च सलिलेऽपि च ॥ ४९ ॥
अनुष्टुप्
रत्न as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वसुदेवभेदेऽनले रश्मौ वसू रत्ने धने वसु । Amarakośa 3.3.444
- हलायुधकोशः (अभिधानरत्नमाला) वसुअग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः । चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥ Abhidhānaratnamālā (Halāyudha) 5.850
- धरणिकोश मणिमणिं चालिञ्जरं विद्यान्मेहनावयवो मणिः । रत्नं मणिरजानां च कण्ठदेशस्तने मणिः ॥ Dharaṇikośa 14.3.3
- धरणिकोश उपलवृषलश्चन्द्रगुप्ते स्याद्वृषलः शूद्र इष्यते । उपलौ रत्नपाषाणावुपला शर्करापि च ॥ Dharaṇikośa 27.2.22
- धरणिकोश वसुवसवो देवभेदाः स्यू रश्मौ योक्त्रेऽनले वसुः । कुबेरे वकपुष्पे च वसु रत्नं धनं वसु ॥ Dharaṇikośa 31.3.1
- कोषकल्पतरु सस्यकस्यान्नालिकेरमध्ये खड्गे रत्ने च सस्यकः प्रोक्तः । अम्लाने बन्धूके रक्तपटे ना च रक्तको [गणितः] ॥ ८६ ॥ Koṣakalpataru 6.1.86
- कोषकल्पतरु मणिवेणिः[280a]केशनिबन्धने च सरितोः स्यात्संगमे च स्त्रियां । जीमूताभिधभेषजे मणिरजाकण्ठस्तने गोलके । रत्ने मेहनकाग्रके च युगुलेऽणिस्त्वाणिरक्षाग्रके कीलेऽश्राववधौ द्वयोरथ कुणिस्तुन्नद्रुमे कोकिले ॥ १५ ॥ Koṣakalpataru 6.15.15
- कोषकल्पतरु उपलस्त्रियां सुविद्युत्कमलाकणासु श्रियामसत्यां चरमे तु शीघ्रे । विशेष्यवत्स्यात्तरले चलेऽथा- स्त्री प्रस्तरे स्यादुपलश्च रत्ने ॥ ९४ ॥ Koṣakalpataru 6.28.94
- कोषकल्पतरु वसुवसुर्द्वयोनस्तु धने सुवर्णे रत्ने च वृद्ध्यौषधकेऽन्यवत्तु । स्वादौ च नासा त्विह नासिकायां द्वारोर्ध्वदारुण्यपि संप्रदिष्टा ॥ ८३ ॥ Koṣakalpataru 6.31.83
- नानार्थार्णवसंक्षेप मणिआदित्येऽप्यथ सर्पे द्वे त्रि तु विघ्नस्य कर्तरि । मणिः स्त्रीपुंसयो रत्ने मणिबन्धेऽप्यलिञ्जरे ॥ ९४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.949
- नानार्थार्णवसंक्षेप वज्रमणिवेधे रत्नभेदेऽप्यशनौ चासनान्तरे । जङ्घे पद्मासनावस्थे तत्सन्धिनिहितौ करौ ॥ ११५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1159
- नानार्थार्णवसंक्षेप माणिक्यमाणिक्यं तु भवेद्रत्नवरे क्लीबं स्त्रियां पुनः । गृहगोधासमाख्ये स्यान्माणिक्यां जन्तुभेदके ॥ १३९८ ॥ Nānārthārṇavasaṃkṣepa 4.1398
- परमानन्दीयनाममाला आकरआरोहोऽथ गजारोह उच्छूये दैर्घ्यमानयोः । स्त्रीकट्यामाकरो रत्ने खान्यां च निकरे तथा ॥ ३४ ॥ Paramānandīyanāmamālā 5.1.34
- परमानन्दीयनाममाला द्रुममेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि । द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ Paramānandīyanāmamālā 5.16.240
- शब्दरत्नावली उपलउपला शर्करायां स्त्री पुंसि पाषाणरत्नयोः । उज्ज्वलः पुंसि शृङ्गारे दीप्ते विकसिते त्रिषु ॥ Śabdaratnāvalī 7.28.44
- शब्दरत्नावली वसुप्रसूर्मातरि कन्दल्यामश्वायां विरुधि स्त्रियाम् । वसुरत्ने धने क्लीबं दीप्तौ वृद्ध्यौषधे स्त्रियाम् । नाग्नौ देवे बके श्यामे योक्तभूपालसाधुषु ॥ Śabdaratnāvalī 7.32.5
- शब्दरत्नाकर मणिमन्दः शनौ सरोगेऽज्ञे निर्भाग्येऽल्पेऽपटौ त्रिषु । अजागलस्तने रत्नेऽलिञ्जरेऽपि मणिर्द्वयोः ॥ १९७५ ॥ Śabdaratnākara 4.1.1975
- शब्दरत्नाकर प्रस्तरपलाशं तु दले ब्रह्मवृक्षराक्षसयोः पुमान् । प्रणिधिः प्रार्थने चारे प्रस्तरस्त्वश्मरत्नयोः ॥ २१२४ ॥ Śabdaratnākara 4.1.2124
- शब्दरत्नाकर पुलकआद्योपलब्धिस्थाने च मूले च प्रभवोऽम्भसाम् । पुलकः कृमिरोमाञ्चहीररत्नास्त्रराजिषु ॥ २१२५ ॥ Śabdaratnākara 4.1.2125
- वैजयन्ती मणिअक्ली मणिरजाकण्ठस्तने रत्नेऽप्यलिंजरे । मात्रा परिच्छदेऽर्थेंशें प्रवृत्तौ कर्णभूषणे ॥ ६२ ॥ Vaijayantī 6.5.62