कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पीनस

pīnasaपुं · masc.

In 14 kośas: 13 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.163 · p. 22
हिक्का हेक्का च हृल्लासः प्रतिश्यायस्तु पीनसः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.51
क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.605 · p. 68
केशघ्नमिन्द्रलुप्तं स्यादर्शश्च गुदकीलकः ।मायुः पित्तः कफः श्लेष्मा प्रतिश्यायश्च पीनसः ॥ ६०५ ॥
अनुष्टुप्
genderपुंmasc.
अम आमो रुजा रुक् च पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या च यक्ष्मा जक्ष्मा च कथ्यते ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.318 · p. 55
पीनसोथ क्षयो राजयक्ष्मा रोगार्थराडपि ।यक्ष्म जक्ष्मश्च यक्ष्मश्च शोषो बहुविधा अमी ॥ ३१८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.26 · p. 308
काशस्तु कासः क्षवथुः पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या स्त्री क्षुत्क्षवः क्षुतमन्तिमे ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.132 · p. 118
अर्शः शोफस्तथा शोथः श्वयथुः परिकीर्तितः ।पीनसे तु प्रतिश्यायः कुरण्डस्त्वण्डवर्धने ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.115 · p. 40
औषधादौ तु जायुः स्यादुपतापो गदे पुमान् ।यक्ष्मा तु रोगराजे स्यात्प्रतिश्यायस्तु पीनसः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.316 · p. 99
नासिकारोगभेदस्तु प्रतिश्यायश्च पीनसः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.222 · p. 98
जक्ष्मा यक्ष्मा राजयक्ष्मा पुमान् शोषः क्षयोऽपि च ।प्रतिश्यायः प्रतिश्या च पीनसो नासिकामये ।अथ स्त्री क्षुत् क्षुता छिक्का क्षवथुर्णा क्षुतं क्षवः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1094 · p. 135
अर्शस्तु पायुकीलः स्यात् प्रतिश्यायस्तु पीनसः ।क्षुतं स्त्री क्षुत् क्षवः पुंसि कासः क्षवथुरित्यपि ॥ १०९४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.14 · p. 149
किंशुकः पीनसः पिंगो देवभिन्न इतीदृशाः ।गोनसस्तु तिलित्सः स्याद्गोनासो घोणसोऽपि च ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.121 · p. 183
पित्तं मायुर्नरि श्लेष्मा बलासः खेटकः कफः ।क्षुत् स्त्री क्षुतः क्षवः पुंसि प्रतिश्यायस्तु पीनसः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1185 · p. 151
आम्रातकाख्ये क्लीबं तु हरितालेऽपि कुङ्कुमे ।पीनसस्तु प्रतिश्याये नाऽथ मण्डलिसंज्ञिनाम् ॥ ११८५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1186 · p. 151
षड्विंशतेः सर्पजातिभेदानां स्याद्द्वयोरयम् ।एकत्र भेदेऽथ क्लीबं पुराणं पञ्चलक्षणे ॥ ११८६ ॥
अनुष्टुप्
doubtful

पीनस as a meaning in nānārtha verses

  • शिवकोष गृञ्जनक्लीतना सिंहपुच्छ्यां च नीलिकायां च गृञ्जनः । पलाण्डुभेदे लसुने मधुशिग्रौ च पीनसि ॥ २५० ॥ Śivakoṣa 16.1.250