कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यक्ष्मन्

yakṣmanपुं · masc.

In 15 kośas: 16 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.463 · p. 22
क्षयः शोषो राजयक्ष्मा यक्ष्माथ क्षुत्क्षुतं क्षवः ॥ ४६३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.51
क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
अम आमो रुजा रुक् च पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या च यक्ष्मा जक्ष्मा च कथ्यते ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.318 · p. 55
पीनसोथ क्षयो राजयक्ष्मा रोगार्थराडपि ।यक्ष्म जक्ष्मश्च यक्ष्मश्च शोषो बहुविधा अमी ॥ ३१८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.2 · p. 306
पाप्माबाधो विकारश्च यक्ष्मा यक्ष्मश्च जन्म(क्ष्म?)वत् ।व्याधिर्ना दुःखमाकल्पं मान्द्यं खिद्रोऽप्यपाटवम् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.30 · p. 309
यमला वेगिनी प्रोक्ता परिणामवती समा ।रोगराजो राजयक्ष्मा यक्ष्मा जक्ष्मा च यक्ष्मवत् ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.18 · p. 96
फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्चस्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा ।आत्माग्निरह्नचरमास्त्वपरादहीनाःप्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥
वसन्ततिलका
genderपुंmasc.
एते नपुंसके भवन्ति । इदं शिल्पं कलादिकं कर्म । छर्दिर्वान्तिः । अन्नं भक्ष्यम् । शमलममेध्यम् । मरकतं रत्नम् । पलालं धान्यादीनाम् । कृच्छ्रं कष्टम् । मन्दिरं गृहम् । रिक्थं द्रव्यम् । मन्दुराशब्दं स्त्रियां जानीयात् । इयं मन्दुरा वाजिशाला ।कल्ककृमिमुन्यङ्गारवप्रग्रहहोमर्षियक्ष्मरेफाः ।मण्डकरण्डवरण्डाश्च पुंसि पथाम्बरीषौ च ॥ ८१ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 र (wrong syllable); pāda 3, syllable 5 न्या (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.127 · p. 117
यक्ष्मशोषावथ प्रोक्तं क्षुतं क्षुत्क्षव इत्यपि ।पामा विचर्चिका कण्डूः कच्छूः खर्जूः समे उभे ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.29 · p. 214
हाहाहूहूर्नग्नहूर्गर्मुदंह्रीपादश्मानौ ------ यक्ष्मतुल्याः ।पञ्चाहाद्या ये समाहारगम्याःपुंलिङ्गे स्यात्स्थेमशब्देऽपि नन्तः ॥ २९ ॥
शालिनीmetre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.115 · p. 40
औषधादौ तु जायुः स्यादुपतापो गदे पुमान् ।यक्ष्मा तु रोगराजे स्यात्प्रतिश्यायस्तु पीनसः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.710 · p. 97
राजयक्ष्मा क्षयः शोषो यक्ष्मा चापि निगद्यते ॥ ७१० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.222 · p. 98
जक्ष्मा यक्ष्मा राजयक्ष्मा पुमान् शोषः क्षयोऽपि च ।प्रतिश्यायः प्रतिश्या च पीनसो नासिकामये ।अथ स्त्री क्षुत् क्षुता छिक्का क्षवथुर्णा क्षुतं क्षवः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.86 · p. 195
अमः, क्षये राजयक्ष्मा यक्ष्मा जक्ष्मापि नान्तकः ।जक्ष्म-यक्ष्मावदन्तौ द्वौ क्षवे क्षुत् क्षुतमप्यथ ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1093 · p. 135
व्याधिरामय आतङ्को गदो रोगो रुजा च तत् ।क्षयः शोषो राजयक्ष्मा यक्ष्मा जूर्तिर्जरोऽन्तकः ॥ १०९३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.124 · p. 183
कण्डूकण्डूतिकण्डूयाः खर्जूः कण्डूयने स्त्रियः ।यक्ष्मा यक्ष्मः क्षयः शोषः कोठः कुष्ठं च मण्डलम् ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.88 · p. 260
अर्वा हयेऽथ त्रिषु कुत्सिते स्या-द्वृषा महेन्द्रेऽपि च कर्ण उक्तः ।यक्ष्मा क्षये स्यादपि रोगमात्रेयुवा वयःस्थे बलिनि स्वभावे ॥ ८८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.98 · p. 29
क्षयरोगे पूजने च यक्ष्मा तु व्याधिमात्रके ।क्षयरोगे च यागस्तु यज्ञेऽप्यागमवेदिनाम् ॥ ९८ ॥
अनुष्टुप्

यक्ष्मन् as a meaning in nānārtha verses