गणक
gaṇakaपुं · masc.In 13 kośas: 13 synonym verses, 1 as a nānārtha head word, 6 as a meaning of another word.
सांवत्सरो ज्यौतिषिको मौहूर्तिको निमित्तवित् ।दैवज्ञगणकादेशिज्ञानिकार्तान्तिका अपि ॥ ४८२ ॥विप्रश्निकेक्षणिकौ च सैद्धान्तिकस्तु तान्त्रिकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ति (wrong syllable)
genderपुंmasc.
स्युर्नैमित्तिकनैमित्तमौहूर्ता गणके लिपौ ।लिखिताऽपि मषी मेला कुलिके कुलकोऽपि च ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि ।स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
सांवत्सरो ज्योतिषिको ज्ञानी मौहूर्तिकस्तथा ।कार्तान्तिकस्तु दैवज्ञ आदेशी गणकः स्मृतः ॥ ४०३ ॥
अनुष्टुप्
genderपुंmasc.
दैवज्ञो गणकस्तथा समयविन्मौहूर्त्त-मौहूर्त्तिकौज्ञानी ज्यौतिषिको निमित्तविदसौ सांवत्सरो हौरिकः ।स्तः कार्त्तान्तिक-पिण्डिलावथ भवेद्वैप्रश्निकः प्रश्नविद्आदेश्यैक्षणिको भवेत्पुनरयं सैद्धान्तिकस्तान्त्रिकः ॥ ११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
कोष्ठपालः कोशपतिर्धनपालो धनाधिपः ।भाण्डारिको द्रव्यरक्षो दैवज्ञो गणको भवित् ॥ १९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderपुंmasc.
दैवज्ञो गणको ज्ञानी मौहूर्तिको निमित्तवित् ।सांवत्सरो ज्योतिषिको ज्योतिर्वित्प्रश्नविच्च सः ॥ १४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ति (wrong syllable)
genderपुंmasc.
आदेशी गणकश्चेति नामानि दर्शितानि वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderपुंmasc.
दैवज्ञो गणको ज्ञानी मौहूर्तो दैवलेखकः ।कार्तान्तिको ज्योतिषिको मौहूर्तिक-भसूचकौ ॥
अनुष्टुप्
genderपुंmasc.
कार्तान्तिकमौहूर्तिकमौहूर्तज्ञानिगणकदैवज्ञाः ।सांवत्सरमौहूर्तौ ज्योतिषिकोऽर्थवति गणितसंख्याते ॥ १२५९ ॥
गीतिः
genderपुंmasc.
सौवस्तिकः पुरोधाः स्याद्गणकादेशकौ समौ ।कौशलिकं प्राभृतकं संघर्षः स्पर्धया समः ॥ १८४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
genderपुंmasc.
मौहूर्तिकमौहूर्तज्यौतिषिकज्ञानिगणकदैवज्ञाः ।सांवत्सर आदेशी कार्तांतिक इत्यमी तुल्याः ॥ २५ ॥
आर्याmetre not read in every line
genderपुंmasc.
गणक as a meaning in nānārtha verses
- कोषकल्पतरु क्षणदतोयेऽन्तिमे स्याद्गणके तु पुंसि कपर्द ईशे च वराटके च । ना खण्डपर्शोश्च जटानिबन्धे प्रतिष्ठितौ त्वास्पदमत्र कृत्ये ॥ ३२ ॥ Koṣakalpataru 6.19.32
- नानार्थार्णवसंक्षेप पिण्डिलमेघे हिमे तु क्ली त्रिस्तु गणके पिण्डितस्तु ना । तुरुष्कसंज्ञनिर्यासे त्रिस्तु स्याद्गणिते घने ॥ ११६६ ॥ Nānārthārṇavasaṃkṣepa 4.1166
- शब्दरत्नावली गणिकाखोलकः पूगवल्मीककोशपाकशिरस्त्र्रके । गणिका यूथिवेश्येभीष्वपि स्त्रीगणके पुमान् ॥ Śabdaratnāvalī 7.1.65
- शब्दरत्नावली ग्रन्थिकग्रन्थिकं पिप्वलीमूले ग्रन्थिपर्णे च गुग्गुलौ । पाण्डवे सहदेवाख्ये करीरे गणके पुमान् ॥ Śabdaratnāvalī 7.1.66
- शब्दरत्नावली क्षणदआमोदः पुंसि हर्षे च गन्धे च सुमहत्यपि । ककुदोऽस्त्री ककुत्स्त्री तु वृषाङ्गे च धजेवरे । क्षणदो गणके पुंसि रात्रौ स्त्री क्लीबमहति ॥ Śabdaratnāvalī 7.18.12
- शब्दरत्नावली ज्ञानिन्जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56