कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्पर्धा

spardhāस्त्री · fem.

In 11 kośas: 8 synonym verses, 2 as a nānārtha head word, 13 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1515 · p. 57
तिर्यक्साचिः संहर्षस्तु स्पर्धा द्रोहस्त्वपक्रिया ॥ १५१५ ॥
metre not recognised
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.786 · p. 90
परभागो गुणोत्कर्षः स्पर्धा संहर्ष उच्यते ।आयामः स्मृत आनाहः परिणाहो विशालता ॥ ७८६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.144 · p. 90
असूयाभ्यवसूया च मत्सरो दोषरोपणम् ।ई[58b]र्ष्या त्वीर्क्ष्या तथेरस्या परोत्कर्षासहिष्णुता ।स्पर्धा स्त्री पुंसि संघर्षो द्रोहस्तु स्यादपक्रिया ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 र्ष्या (syllables merged)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.388 · p. 100
गुणाः सत्त्वं रजश्चैव तमः सांख्यमतानुगाः ।स्पर्धा द्रोहस्तथा बन्ध्यं निष्फलं मोघमित्यपि ॥ ३८८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.382 · p. 450
सङ्घर्षश्चैव संहर्षः स्पर्धा नामाऽपि कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्रि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.386 · p. 136
कक्षा स्पर्धा प्रतिस्पर्धा परिकक्षा च कुत्रचित् ।मोहो मुर्च्छा कश्मलञ्च मूर्छनञ्चापि कुत्रचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.87 · p. 256
सामान्ये तु जातिर्जातम्, स्पर्धायां तु समः परौ ।हर्ष-घर्षौ च संक्राम-संक्रमौ दुर्गसञ्चरे ॥ ८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1840 · p. 223
सौवस्तिकः पुरोधाः स्याद्गणकादेशकौ समौ ।कौशलिकं प्राभृतकं संघर्षः स्पर्धया समः ॥ १८४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.64 · p. 241
बाधा निषेधेऽपि च दुःख उक्तासुधा तु मूर्वाविकसास्नुहीषु ।विलेपवस्तुन्यमृतेऽथ संधास्थितौ च संवि[8b]द्यथ लालसायाम् ।श्रद्धातिभक्तौ क्रमतस्तु वृद्धौस्पर्धापि संघर्षणसाम्ययोः स्यात् ।मुग्धोऽन्यवत्सुन्दरमूढयोः स्या-द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 5 वि (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.16 · p. 232
सन्धा स्थितौ प्रतिज्ञायां सन्धानेऽपि च कुत्रचित् ।स्पर्धा क्रमोन्नतो साम्ये तथा संहर्षणे स्त्रियाम् ॥
अनुष्टुप्

स्पर्धा as a meaning in nānārtha verses

  • धरणिकोश ऋतिऋतिर्गतौ घृणायां च स्पर्धायामशुभेऽपि च । धाता स्याद्धारकः पोष्टा धातारौ विधिवेधसौ ॥ Dharaṇikośa 15.2.8
  • धरणिकोश मिषमिषं व्याजो मिषं स्पर्धा शोषः शोषणयक्ष्मयोः । किल्बिषा मदिरा द्रोहे कलुषं पापमाविलम् ॥ Dharaṇikośa 30.1.2
  • कोषकल्पतरु आह्वयतेकुन्थति स्याद्युन्थति च संक्लेशे स्वरतीत्यपि । आह्वयते स्याद्धर्षति च स्पर्धते मिषतीति च ॥ ९० ॥ Koṣakalpataru 3.5.90
  • कोषकल्पतरु प्रत्युत्तिष्ठतिपर्यवाद्रिपुभावेऽवादवस्थायां व्यवाद्यमे । उदो निदान…र्देहोद्भवोद्यमे । व्युदो विरोधनस्वैरकृत्योः समुद उद्यमे । रुङ्निर्णये प्रत्युदोऽङ्गीकृतौ स्पर्धाभियानयोः ॥ ९६ ॥ Koṣakalpataru 3.5.96
  • कोषकल्पतरु गर्ज्स्पर्धायां स्यात्प्रतेर्गर्जिरुद्गै * सेवने मतः । वेर्निन्दायामवाद्दृष्टो निर्वा[218b]दे वापि गर्हणे ॥ ३१ ॥ Koṣakalpataru 3.5.31
  • कोषकल्पतरु ऋतिमन्वादिशास्त्रेषु च मङ्गले तु स्पर्धाजुगुप्सागमने ऋतिः स्यात् । वृतिस्तु वाटे वरणे सृतिस्तु स्यान्मार्गगत्योरथ घातकृत्योः ॥ ५१ ॥ Koṣakalpataru 6.16.51
  • कोषकल्पतरु कक्षाशुष्के तृणे वीरुधि च प्रकोष्ठे पाश्चात्त्यवस्त्राञ्चलपल्लवे स्त्री । काञ्च्यां तथोद्ग्राहणिकारथाङ्ग- स्पर्धापदे स द्विपरज्जुगश्च ॥ ५३ ॥ Koṣakalpataru 6.30.53
  • कोषकल्पतरु संहर्षअभ्यासवस्तुन्यपि कार्मुकस्य वदन्ति सन्तः किल कर्षणेऽपि । स्पर्धाप्रसङ्गप्रमदेषु पुंसि संहर्षं उद्धर्ष इहातिहर्षे ॥ ६० ॥ Koṣakalpataru 6.30.60
  • नानार्थार्णवसंक्षेप व्यायामअमोघ उत्पत्तिक्षेत्रेऽप्युक्तो वावीर इत्यथ । व्यायामः पौरुषे व्यामे स्पर्धायां दुर्गसञ्चरे ॥ १८८ ॥ Nānārthārṇavasaṃkṣepa 3.2.188
  • शब्दरत्नावली मिषभिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥ मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥ मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.31.11
  • शब्दरत्नावली संघर्षसंघर्षो घर्षणस्पर्धासंसर्पे च पुंस्ययम् । समीक्षा तु मनीषायां तत्त्वे यत्ने निभालने ॥ Śabdaratnāvalī 7.31.25
  • वैजयन्ती व्यायामस्पर्धायां पौरुषे व्यामे व्यायामोऽथ परिक्रमे । विहारः सौगतावासे क्रीडायाञ्चाथ विग्रहः ॥ ६८ ॥ Vaijayantī 7.1.68
  • वैजयन्ती संघर्षसंघर्षौ घर्षणं स्पर्धा शरखड्गौ तु सायकौ । समिकौ वृक्षवल्मीकौ सृदाकू व्याघ्रपावकौ ॥ ७७ ॥ Vaijayantī 7.1.77