ग्रन्थिक
granthikaक्ली · neut.In 16 kośas: 16 synonym verses, 11 as a nānārtha head word.
genderक्लीneut.
ग्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः ।मोद्रेयाविमौ कौन्तेया भीमार्जुनयुधिष्ठिराः ॥ १३८ ॥द्वयेऽपि पाण्डवेयाः स्युः पाण्डवाः पाण्डवायनाः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable); pāda 3, syllable 5 मौ (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
genderपुंmasc.
genderक्लीneut.
कडम्बश्च कलम्बोऽपि जीरो जीरक उच्यते ।ग्रन्थीकं ग्रन्थिकं च स्यात् शुल्बी शुल्विरुभे समे ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
गुल्मेषु ग्रन्थिकः सस्यात् स च पुष्पेषु पर्वतः ।ओषधीषु ज्योतिरयं रूपको नलिनीषु च ॥ ३०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्यो (wrong syllable)
genderपुंmasc.
तन्तिपालः शाकुनस्तु गोवित्स्याद्ग्रन्थिकः पुनः ।सहदेवोऽपि चरमावेतौ माद्रीसुतावुभौ ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
पिप्पल्यर्था तदुत्थाथ मूलं तु चटिका शिरः ।ग्रन्थिकं पिप्पलीमूलं कटुमूलं च शोषजम् ॥ ३४८ ॥
अनुष्टुप्
genderक्लीneut.
उलपस्तृणभेदे स्याद्गुल्मिन्यामुलपं मतः ।कणीचिः स्त्री पुष्पितास्या ग्रन्थिकस्तु लताज्वरः ।प्ररोहोऽस्त्री त्वङ्कुरः स्यादङ्कूरः कन्दलस्त्रिषु ॥ २३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
तुबरो वशिरस्तीक्ष्णस्तथा कुक्कुटमस्तकः ।मूलं तु ग्रन्थिकं ग्रन्थिः षड्ग्रन्थिचटिकाशिरः ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
गाण्डीवं गाण्डिवं न स्त्री धनुस्तस्य रथः पुनः ।नन्दिघोषोऽथ शङ्खोऽस्य देवदत्तः प्रकीर्त्तितः ॥भीमस्य पौण्ड्रः शङ्खः स्यान्नकुलस्तन्त्रिपालकः ।ग्रन्थिकः सहदेवः स्यान्माद्रेयौ द्वाविमौ यमौ ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
शौण्डी श्यामोषणा कोलोपकुल्या कृष्णतन्दुला ।तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः ॥ ३०५ ॥
अनुष्टुप्
genderक्लीneut.
मागधी पिप्पली कृष्णा कणा स्यादुपकुल्यया ।वैदेही पिप्पलीमूले ग्रन्थिकं कथितं बुधैः ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
ग्रन्थिकं पिप्पलीमूले चटकाशिर इत्यपि ।गोलोभ्यां भूतकेशः स्यादिक्षुमूले तु मोरजः(टः?) ॥ ५६२ ॥
अनुष्टुप्
genderक्लीneut.
पिप्पलीमूलमित्येकं ग्रन्थिकं चटकाशिरः ।सर्वग्रन्थिकमित्येवं नाम ज्ञेयं चतुष्टयम् ॥ ६३५ ॥
अनुष्टुप्
genderक्लीneut.
अथ स्यात् पिप्पलीमूलं ग्रन्थिकं चटिकाशिरः ।चटिका च शिरश्चेति चटकाशिर इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
पद्मोत्तरं वह्निशिखं महारजतमित्यापि ।कुसुंभे पिप्पलीमूले ग्रन्थिकं चटिका शिरः ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderक्लीneut.
कार्मुकः कर्मशक्ते स्यात्कांर्मुकं धनुषि स्मृतम् ।ग्रन्थिकं पिप्पलीमूले सहदेवकरीरयोः ॥
अनुष्टुप्
वरुणेऽपि जम्बुकः स्याद्-ग्रन्थिक आद्ये करी[रः]स्यात् ।गुग्गुलुमाद्रीसून्वो-र्दैवज्ञेऽन्त्ये तु पिप्पलीमूले ॥ ९२ ॥
metre not recognised
पलाण्डुजातिभेदेऽथ क्रियायां गर्जतेर्नपि ।ग्रन्थिकं तु नपि ज्ञेयं पिप्पलीमूलसंज्ञके ॥ ६५३ ॥
अनुष्टुप्
meaningsपिप्पलीमूल
भेषजे ग्रन्थिपर्णाख्यभेषजे च पुमान् पुनः ।माद्रेये भेद्यलिङ्गं तु ग्रन्थो यत्रास्ति तत्र वै ॥ ६५४ ॥
अनुष्टुप्
ग्रहणं स्वीकृते चोपरागे यत्ने गुणे ध्वनौ ।ग्रन्थिकं पिप्पलीमूले ग्रन्थिको ग्रहचारवित् ॥ १६१ ॥
अनुष्टुप्
विडङ्गे ग्रन्थिपर्णेऽपि गण्डको विघ्नखड्गिनोः ।गण्डकी तु नदीभेदे गोरङ्कुः खगनग्नयोः ॥ १६२ ॥
अनुष्टुप्
वत्सके चाथ गणिका यूथिका वह्निमन्थयोः ।ग्रन्थिकं मागधे गूढच्छदनग्रन्थिपर्णयोः ॥ २५ ॥
अनुष्टुप्
गुग्गुलौ गैरिकं धातौ रुक्मे रक्ते च हल्लके ।चित्रकः पावकेऽमण्डे चित्रकं मुखमण्डने ॥ २६ ॥
अनुष्टुप्
meaningsगुग्गुलु
doubtful
ग्रन्थिकं पिप्वलीमूले ग्रन्थिपर्णे च गुग्गुलौ ।पाण्डवे सहदेवाख्ये करीरे गणके पुमान् ॥
अनुष्टुप्
ग्रन्थिकौ पार्थदैवज्ञौ ग्रन्थिपर्णे च न द्वयोः ।कुण्ठालङ्कारखद्योतविद्युत्सु चिलिमीलिका ॥ २० ॥
अनुष्टुप्
यमेऽपि शमनो ध्वान्ते क्ली हिंस्त्रे त्रिषु शार्वरः ।करञ्जभेदे षट्ग्रन्थः षट्ग्रन्था ग्रन्थिकं वचा ॥ ८७ ॥
अनुष्टुप्
meanings