कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तुलाकोटि

tulākoṭiस्त्री · fem.

In 16 kośas: 15 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.421 · p. 28
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६५ ॥मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् ।सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ ॥पटः प्रौतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.109
पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.561 · p. 63
सिञ्जिनी पादकटकस्तुलाकोटिस्तु नूपुरम् ।मञ्जीरं हंसकं स्त्रीणां चरणाभरणं स्मृतम् ॥ ५६१ ॥
अनुष्टुप्
genderस्त्रीfem.
ताडङ्कोऽपि च तालङ्कोऽप्यवतंसो वतंसवत् ।तुलाकोटिस्तुलाकोटी किङ्किणी किङ्कणी अपि ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.268 · p. 50
स्यात्पादकटकं चास्त्री तुलाकोटिरपि द्वयोः ।मञ्जीरोऽस्त्री नूपुरोऽपि तुलाकोट्यपि च स्त्रियाम् ॥ २६८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 226
शृङ्खला त्रिषु पुंस्कट्यामथ पादाङ्गदं भवेत् ।सिञ्जिनी स्यात्तुलाकोटिः स्यात्पादकटकोऽपि च ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 107 · p. 53
मञ्जीरकं तुलाकोटिर्नूपुरं तत्र संसृतम् ।झाङ्कृतं चाथ मरुति क्रेङ्कृतं क्रौञ्चहंसयोः ॥ १०७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.312 · p. 140
किङ्किणी लघुघण्टिः स्यात्तुलाकोटिस्तु नूपुरे ।पादाङ्गदं च मञ्जीरं पादात्कटकमित्यपि ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.166 · p. 46
तुलाकोटिर्हंसकश्च नूपुरे परिकीर्तितौ ।तस्यामेव स्वल्पघण्ट्यां किङ्किणी परिकीर्तिता ॥ १६६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.100 · p. 7
पादाङ्गदं तुलाकोटिः हंसो मञ्जीरनूपुरे ।पादाटनोऽङ्घ्रिवलयं नवटोऽङ्गुष्ठमौद्रिकम् ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.53 · p. 24
मञ्जीरं पादकटकं तुलाकोटिश्च नूपुरम् ।हंसकं सिञ्जिनी चेति यावकोऽलक्तकः स्मृतः ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1080 · p. 166
पादाङ्गदं तुलाकोटिः नूपुरं पादनालिका ।शिञ्जिनी पादशीली च पादशाली च हंसकम् ॥ १०८० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.356 · p. 105
नूपुरोऽस्त्री तुलाकोटिस्तुलाकोटी च हंसकः ।मञ्जीरं पादकटकं पादाङ्गद-पदाङ्गदे ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1168 · p. 143
नूपुरोऽस्त्री तुलाकोटिर्मञ्जीरो हंसकः समाः ।आवापकः पारिहार्यमुभयं कटकान्तरे ॥ ११६८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.145 · p. 170
साक्षरांगुलिमुद्रा सा क्षुद्रघंटा तु किंकिणी ।शिंजिनी ना तुलाकोटिर्मंजीरो नूपुरोऽस्त्रियौ ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.261 · p. 48
तीक्ष्णगन्धस्तु ना शिग्रौ तथा श्वेतकठिञ्जरे ।अत्रापि पूर्ववत् सादि तुलाकोटिस्तु नूपुरे ॥ २६१ ॥
अनुष्टुप्