शृङ्खला
śṛṅkhalāस्त्री · fem.In 10 kośas: 11 synonym verses, 2 as a nānārtha head word, 5 as a meaning of another word.
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले ।अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
शृङ्खला शृङ्खलं च स्यात् काञ्ची काञ्चिरुभे समे ।कौशेयमपि कोषेयं स्यादाहतमनाहतम् ॥ १८९ ॥
अनुष्टुप्
genderस्त्रीfem.
पुंस्यङ्कुशो निकुञ्चः स्याद्वारणी स्यात्स्त्रियामथ ।अर्गल्यादेरधिष्ठाने शृङ्खला वल्गनी स्त्रियौ ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
कृतं द्वापरमित्याद्यास्तद्भेदाः स्युरनेककाः ।स्याच्चञ्चुरी तिन्तिडी च पञ्चमीसारि शृङ्खला ॥ १०६ ॥
अनुष्टुप्
genderस्त्रीfem.
शृङ्खला त्रिषु पुंस्कट्यामथ पादाङ्गदं भवेत् ।सिञ्जिनी स्यात्तुलाकोटिः स्यात्पादकटकोऽपि च ॥ ८२ ॥
अनुष्टुप्
genderविadj.
मर्त्यजात्यन्तरे विप्राच्छूद्रायां व्यभिचारतः ।जाते शूलवति त्वेतत् त्रिरथो शृङ्खला त्रयी ॥ १८४९ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
मेखला कटिसूत्रं स्यात्काञ्ची सारसनं तथा ।कलापो रसना चैव शृङ्खला पुंस्कटीस्थिता ॥ ३११ ॥
अनुष्टुप्
genderस्त्रीfem.
कक्ष्या कक्षा सप्तकी स्यात् काञ्चिः काञ्ची च मेखला ।सारसनं सरसनं रसना रशना तथा ॥रसनं रशमञ्चेति स्त्रीकटीभूषणे भवेत् ।अथ पुंसः कटीदेशभूषणे शृङ्खला त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 स (wrong syllable)
genderविadj.
सृणिर्द्वयोरङ्कुशोऽस्त्री सूना दण्डार्पितोऽङ्कुशः ।हिञ्जीरः स्याल्लोहमयं शृङ्खलं शृङ्खला त्रिषु ॥ ७११ ॥
अनुष्टुप्
genderस्त्रीfem.
प्राची तु शृङ्खला हिञ्जीरोऽस्त्री स्यादन्दुकश्च सः ।पित्तज्वरः पाकलोऽस्य कूटपूर्वस्त्रिदोषजः ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिलिङ्ग्यान्तु प्रतिसरस्फुलिङ्गनखरार्गलाः ।कन्दरं शृङ्खलं नालं वल्लूरफलमुस्तकाः ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
पुंसः कटीवाससि बन्धने चस्याच्छृङ्खलासौ निगडे त्रिलिङ्ग्याम् ।स्त्रियां कुचेला किल विद्धकर्ण्यांकुवस्त्रके तु प्रथितान्यलिङ्गा ॥ ५४ ॥
उपजातिः
doubtful
कटिसूत्रे भवेत् पुसां पादबन्धनवस्तुनि ।अपि स्याद्दन्तिनां ना तु शृङ्गारः स्याद्रसान्तरे ॥ १८५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पु (wrong syllable)
doubtful
शृङ्खला as a meaning in nānārtha verses
- कोषकल्पतरु पादपाशीशंभौ तथा चूर्णविलेपिनि स्या- द्राहौ च खण्डामलकौषधे च । स्थाच्छृङ्खलायां[83a]कटके च पादु- कायां तथा योषिति पादपाशी ॥ ३६ ॥ Koṣakalpataru 6.30.36
- कोषकल्पतरु रासचेट्यां च[87b]रासस्तु रवे च भाषा- सच्छृङ्खलाभीरकखेलयोश्च । कोलाहलेऽथोऽयुजि भाप्रभावे तथा मयूखे च पुमांस्तु माः स्यात् ॥ ७७ ॥ Koṣakalpataru 6.31.77
- शब्दरत्नावली लोहललोहलः शृङ्खलाचार्येऽव्यक्तवाच्यभिधेयवत् ॥ Śabdaratnāvalī 7.28.88
- शब्दरत्नावली पादपाशीजीवितेशः प्राणनाथे यमे विधुविवस्वतोः । नागपाशः स्त्रीकरणे दुर्बुद्धौ वरुणायुधि ॥ पञ्चदशी पौर्णमास्यां अमावस्यातिथावपि । प्रतिष्कशः पुरोगे स्याद्वार्ताहरसहाययोः ॥ परिवेशः सूर्यपार्श्वमण्डले परिवेष्टने । पादपाशी खुतुक्कायां शृङ्खलायामपि स्त्रियाम् ॥ पुरोडाशो हविर्भेदे पिष्टके हुतशेषके । भूमिस्पृक्मानुषे वैश्ये चौरभेदेऽन्धखञ्जयोः ॥ Śabdaratnāvalī 7.30.30
- वैजयन्ती अन्दूअर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः । अन्दूस्तु शृंखला पादभूषाप्यष्ठी फलास्थ्यपि ॥ १ ॥ Vaijayantī 6.2.1