गोकर्ण
gokarṇaपुं · masc.In 15 kośas: 23 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.
प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति ।प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
अनुष्टुप्
सर्पपुंपृदाकुपुंभुजगपुंभुजङ्गपुंअहिपुंभुजङ्गमपुंआशीविषपुंविषधरपुंचक्रिन्पुंव्यालपुंसरीसृपपुंकुण्डलिन्पुंगूढपाद्पुंचक्षुःश्रवस्पुंकाकोदरपुंफणिन्पुंदर्वीकरपुंदीर्घपृष्ठपुंदन्दशूकपुंबिलेशयपुंउरगपुंपन्नगपुंभोगिन्पुंजिह्मगपुंपवनाशनपुंलेलिहानपुंद्विरसनपुंगोकर्णपुंकञ्चुकिन्पुंकुम्भीनसपुंफणधरपुंहरिपुंभोगधरपुं
genderपुंmasc.
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
प्रादेशः स्यात्प्रदेशिन्या तालो मध्यमया भवेत् ।गोकर्णोऽनामया प्रोक्तो वितस्तिः स्यात्कनिष्ठया ॥ ५३८ ॥
अनुष्टुप्
genderपुंmasc.
अनामयापि गोकर्णः सपादद्वादशाङ्गुलः ।कनिष्ठया ततेऽङ्गुष्ठे वितस्तिर्द्वादशाङ्गुलः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
चारुष्कः स्याच्चारुतनुः पृषतश्चित्रबिन्दुकः ।छिक्कारः कालपुच्छः स्याद्गोकर्णो दीर्घशृङ्गकः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
व्यालानिलाशन-विषायुध-लेलिहानाद्वंद्वे त्वहिर्विषधरो रसनाविषश्च ।कुम्भीनसोऽपि सृदरश्च बिलेशय[150a]श्चगोकर्ण-नागक-फणायुध-काद्रवेयाः ॥ २७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
ब्रूते तु कुटिलागारे रभसः शब्दवित्तमः ।द्वयोस्तु नक्रेऽथ पुमान् गोकर्णोऽनामया सह ॥ ६८५ ॥
अनुष्टुप्
genderपुंmasc.
कुरङ्गमृगसारङ्गा वातायुहरिणावपि ।तद्भेदा रङ्कुगोकर्णन्यङ्कुचीनादयो मताः ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
गोकर्णः पीलुकर्णश्च पृषतोऽप्येण ऋश्यकः ।रोहितः कुण्डपालाद्या मृगभेदा इतीरिताः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
प्रादेशश्चापि तालश्च गोकर्णस्तदनन्तरम् ।वितस्तिः कथ्यते भूयो जगति पण्डितैः जनः ॥ ९५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
genderपुंmasc.
ऋष्यसमूरुगोकर्णाः प्रियकः पृषतस्तथा ।शम्बरः शंवरश्चैव संवरः कदली पुनः ॥ २३३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
genderपुंmasc.
आशीविषश्च गोकर्णः आशीर्विषश्च गूढपात् ।विषधरस्तथा भोगधरः फणधरः पुनः ॥ २३५६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्वि (wrong syllable); pāda 3, syllable 3 ध (wrong syllable)
genderपुंmasc.
उरगो जिह्मगो भोगी पृदाकुर्व्याडपन्नगौ ।दंष्ट्री विषास्यो गोकर्णो गूढपात् पवनाशनः ॥
अनुष्टुप्
genderपुंmasc.
मृगभेदाः कृष्णसार-रुरु-सम्बर-रौहिषाः ।गोकर्ण-रङ्क-चमर-न्यङ्कु-गन्धर्व-रोहिताः ॥
अनुष्टुप्
genderपुंmasc.
अनामाङ्गुष्टविस्तारात् गोकर्ण इति कीर्तितः ।कणिष्ठाङ्गुष्ठयोः किष्कुर्वितस्तिर्द्वादशाङ्गुलम् ॥
अनुष्टुप्
genderपुंmasc.
स गोकर्णोऽसितो रामो रोहिषो गर्दभाकृतिः ।न्यङ्कुस्तु शम्बराकारस्त्रिकेण विपुलोन्नतः ॥ ६८३ ॥
अनुष्टुप्
genderपुंmasc.
रामेश्वरं महाकालं गोकर्णं विजयेश्वरम् ।श्रीशैलं शम्बलं काञ्चीं पद्मनाभं प्रभासकम् ॥ ८३७ ॥
अनुष्टुप्
genderक्लीneut.
न्यंकुस्तु शंबराकारस्त्रिकेण विपुलोन्नतः ।परंपरस्तु गोकर्णः पोटरूपस्तु तत्समः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
घण्टांगुष्ठेन भिन्ना सा खेटकस्त्वर्धमुष्टिकः ।प्रादेशतालगोकर्णा वितस्तिः स्त्री यथाक्रमम् ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
गोकर्णो दन्दशूके स्यान्मृगप्रमथभेदयोः ।अङ्गुष्ठानामिकोन्माने गोकर्णी पिलुपर्णिका ॥
अनुष्टुप्
संकीर्णं प्रमथान्तरेऽश्वतरके नागे मृगेऽनामिका-ङ्गुष्ठोन्मानगतश्च पुंसि गदितो गोकर्ण एवं बुधैः ।मूर्वायां वनितारणिस्तु मिथुने निर्मथ्यकाष्ठे पुमां-स्तर्क्वायांशरणिः स्त्रियां च सरणिः पङ्क्तौ तथा वर्त्मनि ॥ ३८ ॥
शार्दूलविक्रीडितम्
अङ्गुष्ठे वितते मानं यत् तत्र श्रवणे च गोः ।ईश्वरस्थानभेदे च मृगभेदे पुनर्द्वयोः ॥ ६८६ ॥
अनुष्टुप्
doubtful
गोकर्णोऽनामिकाङ्गुष्ठमाने चाश्चतरेऽपि च ।मृगसर्पगणे पुंसि गोकर्णीमूर्विकाद्रुमे ॥
अनुष्टुप्
अङ्गुष्ठानामिकोन्माने गोकर्णोऽहौ मृगेऽपि च ।नासिकाघ्रातयोर्घ्राणं चूर्णं गन्धयुतावपि ॥ १२६ ॥
अनुष्टुप्
गोकर्ण as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप परम्परापुत्रपौत्रादिमालायां स्याद्गृहस्थस्य पञ्चमे । षष्ठे च मृगभेदे च गोकर्ण इति विश्रुते ॥ ३५४ ॥ Nānārthārṇavasaṃkṣepa 6.354