कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पीति

pītiपुं · masc.

In 11 kośas: 6 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

यौतुकं यौतकं च स्याद् घोटके घोट उच्यते ।पीतिः पीथिश्च तुरगस्तुरङ्गोऽपि तुरङ्गमः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.191 · p. 110
स्यान्मुद्गमाषपर्यायाशनार्थश्चामरी च वाट् ।श्र्यर्थात्पुत्रार्थकः पीतिः केसरी हंस इत्यपि ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.482 · p. 87
एकपङ्क्तिकमानुष्यपाने पीतिरितीष्यते ।तेषां भुजिक्रियायां तु स जग्धिरिति कथ्यते ॥ ४८२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.247 · p. 128
गन्धर्वः सैन्धवो वाहः पीतिर्वातायनी हयः ।श्रीपुत्रश्चामरी ह्रेषी शालिहोत्रे मरुद्रथः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.298 · p. 242
अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि ।वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत् ॥ २९८ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.91 · p. 111
कुदरो घोटकस्तार्क्ष्यः क्रमणो ग्रहभोजनः ।पाकलः परुलः पीतिर्माषाशी हि सविक्रमः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.10 · p. 62
प्रेतो मृते च भूते च पोतः शिशुवहित्रयोः ।पीतिस्तुरंगमे पाने शितिः श्वेते च मेचके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.53 · p. 212
सीम्नि प्रचारे त्रयकाव्यवृत्ति-भेदेष्वपि स्यात्तु[290a]रगे तु पुंसि ।पाने स्त्रियां पीतिरथो हये नास्त्रियां तु दीप्तौ प्रजनेऽशने च ॥ ५३ ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.779 · p. 109
बालपेयघृते तु स्यादन्ये तु नवनीतके ।अग्नौ च पीतिस्त्वश्वे द्वे क्रियायां पिबतेः स्त्रियाम् ॥ ७७९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.25 · p. 215
पीतिः स्याद्घोटके पुंसि स्त्रियां पाने निगद्यते ।पीता स्त्री तु हरिद्रायां पाने क्लीबं सिते त्रिषु ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1960 · p. 238
पाने स्त्री पीतिरश्वे ना पोत्रं लाङ्गलदंष्ट्रिणोः ।मुखाग्रदेशेऽथ पलं मांसे कर्षचतुष्टये ॥ १९६० ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.173 · p. 150
वृत्तिवार्ताप्रवाहेषु प्रवृत्तिरथ घोटके ।पाने च पीतिः सिक्ते तु प्रोक्षितं निहतेऽपि च ॥ १७३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.51 · p. 234
पार्श्वमस्त्री समीपेऽपि पृज्यः श्वशुरमान्ययोः ।स्नेहे केलौ प्रेम न स्त्री पीतिः पाने हये तु ना ॥ ५१ ॥
अनुष्टुप्

पीति as a meaning in nānārtha verses

  • धरणिकोश पानपानं स्याद्रक्षणं पीतिश्छन्नं स्याच्छादितं रहः । रत्नं मणावुत्कृष्टे च चिह्नं लक्ष्मपताकयोः ॥ Dharaṇikośa 19.1.2
  • नानार्थार्णवसंक्षेप पानद्यावापृथिव्योः पानं तु त्राणशोषणयोर्नपि । पीतौ च ना तु निःश्वासवायौ प्रायः पुनः पुमान् ॥ ७५८ ॥ Nānārthārṇavasaṃkṣepa 2.5.758
  • शब्दरत्नावली पानपानं पीतौ भोजने च रक्षणे च नपुंसकम् । भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् ॥ भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु । मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥ Śabdaratnāvalī 7.20.14