तुरङ्गम
turaṅgamaपुं · masc.In 14 kośas: 13 synonym verses, 13 as a meaning of another word.
घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ।
अनुष्टुप्
genderपुंmasc.
अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
गीतिः
genderपुंmasc.
तुरङ्गमः शालिहोत्री कुतुरस्तर्क्ष्यकस्तथा ।मेटकः क्रमणो भोगी पाकलो गृहभोजनः ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
यौतुकं यौतकं च स्याद् घोटके घोट उच्यते ।पीतिः पीथिश्च तुरगस्तुरङ्गोऽपि तुरङ्गमः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णो विस्तीर्णहस्ताग्रः कुञ्जरः कुमुदान्वयः ।घोटोश्वस्तुरगो वीती किण्वी क्रान्तस्तुरङ्गमः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
वाहोऽश्वस्तुरगो वाजी हयो धुर्यस्तुरङ्गमःसप्तिरर्वा हरी रथ्यः सप्ताद्यश्वो मयूखवान् ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।रिङ्खावासस्तु तुक्खारः कुटुरोणेटकस्तथा ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
केशरी केसरी कुण्डी कुटरः पालकः पुनः ।घोटकस्तुरगस्तार्क्ष्यस्तुरङ्गश्च तुरङ्गमः ॥ २२३१ ॥
अनुष्टुप्
genderपुंmasc.
कूटपाकनमस्त्री स्यात् हस्तित्रिदोषजे ज्वरे ।घोटकस्तुरगो वाजी तुरङ्गश्च तुरङ्गमः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
genderपुंmasc.
अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि ।वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत् ॥ २९८ ॥
metre not recognised
genderपुंmasc.
तुरगतुरङ्गतुरङ्गमसैन्धवसप्त्यश्ववाजिवाहहयाः ।गन्धर्ववीतिघोटकहर्यर्वश्रीजहेषिणश्च समाः ॥ ७१९ ॥
गीतिः
genderपुंmasc.
अश्वस्तुरंगस्तुरगो हयः सप्तिस्तुरंगमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.doubtful
तुरङ्गम as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप वृषन्वृषा तु वृषभे शक्रे श्रेष्ठे पुंसि तुरङ्गमे । छन्दोभेदे निदानोक्तेऽप्यष्टपञ्चाशदक्षरे ॥ ११४ ॥ Nānārthārṇavasaṃkṣepa 2.2.114
- नानार्थार्णवसंक्षेप तार्क्ष्यसौवर्चलाख्यलवणे पुनः क्ली द्वे तुरङ्गमे । तान्तस्तु मासे ना तान्तिमति तु त्रिः पुमान् पुनः ॥ ५२८ ॥ Nānārthārṇavasaṃkṣepa 2.5.528
- नानार्थार्णवसंक्षेप वारुचतुष्पदि स्यात् प्रजनप्राप्तायामपरः पुनः । द्वे गोमायाविति प्राह वारुस्तु द्वे तुरङ्गमे ॥ १२४४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1244
- नानार्थार्णवसंक्षेप सिमक्षेत्रस्य मर्यादायां च द्वयोस्तु स्यात् तुरङ्गमे । सिमाः स्त्रियो महानाम्नीसंज्ञसामान्तरे तथा ॥ १५१९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1519
- नानार्थार्णवसंक्षेप हंसभिक्षौ श्वेतवृषे पुंसि द्वयोश्च -- तुरङ्गमे । विहङ्गमविशेगे च श्वेतपक्षादि--के ॥ १५७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1571
- नानार्थार्णवसंक्षेप एतशइन्द्रे चन्द्रे तथाध्वर्यौ द्वयोस्तु स्यात् तुरङ्गमे । एधतुस्तु स्त्रियां लक्ष्भ्यां ना त्वग्नौ पुरुषेऽपि च ॥ २९४ ॥ Nānārthārṇavasaṃkṣepa 4.294
- नानार्थार्णवसंक्षेप केसरिन्केसरी तु पुमान् सिंहे मातुलुङ्गे तुरङ्गमे । पुन्नागे चाप्ययोः भेद्यलिङ्गः केसरवत्यसौ ॥ ५८६ ॥ Nānārthārṇavasaṃkṣepa 4.586
- नानार्थार्णवसंक्षेप तुरगीरभसस्तु नरि प्राह विभीतकमहीरुहे । तुरगी त्वश्वगन्धायां स्त्री द्वयोस्तु तुरङ्गमे ॥ ८८२ ॥ Nānārthārṇavasaṃkṣepa 4.882
- नानार्थार्णवसंक्षेप पचेलिमपचेलिमस्तु ना वह्नौ माषे च द्वे तुरङ्गमे । पद्मासनो विरिञ्चे ना क्ली तु स्यादासनान्तरे ॥ ३६५ ॥ Nānārthārṇavasaṃkṣepa 6.365
- नानार्थार्णवसंक्षेप मल्लिकाक्षमल्लिकाक्षः सितैर्नेत्रैर्युक्ते ज्ञेयस्तुरङ्गमे । हंसे च चञ्चुचरणैर्मल्लिकैरुपलक्षिते ॥ ४९० ॥ Nānārthārṇavasaṃkṣepa 6.490
- नानार्थार्णवसंक्षेप वासुदेववासतेयी तु रात्र्यां स्त्री साधौ तु वसतौ त्रिषु । वासुदेवस्तु ना विष्णौ द्वयोस्तु स्यात् तुरङ्गमे ॥ ५५० ॥ Nānārthārṇavasaṃkṣepa 6.550
- शब्दरत्नावली ललामन्ललाम स्याद्ध्वजे शृङ्गे प्रभावे च तुरङ्गमे । प्रधाने लाञ्छने पुण्ड्रे वालधौ भूषणेऽपि च । लाङ्गली रेवती कान्ते नारिकेलद्रुमे पुमान् । …वञ्चकव्याघ्रगन्धमार्जारकेषु च । वर्द्धमानः पशुविष्णुशरावैरण्डसूरिषु । विस्मापनः स्मरे पूर्यां गन्धर्वे कुहनेऽपि च ॥ विसर्जनं परित्यागदानसंप्रेरणेषु च । विरोचनोऽग्निसूर्येन्दुप्रह्लादतनयेषु च ॥ विहेठनं मर्दने स्याद् हिंसायाञ्च विडम्बने ॥ Śabdaratnāvalī 7.20.121
- शब्दरत्नावली गन्धर्वगजाह्वा गजपिप्पल्यां क्लीबन्तु हस्तिनापुरे । गन्धर्वः कोकिले पुंसि पशुभेदे तुरङ्गमे ॥ Śabdaratnāvalī 7.23.11