मानभेद
mānabhedaIn 7 kośas: 0 synonym verses, 24 as a meaning of another word.
मानभेद as a meaning in nānārtha verses
- धरणिकोश दण्डदण्डो दमे मानभेदे चण्डाशोः पारिपार्श्वके । दण्डो लगुडमन्थानयमसैन्येषु वाजिनि ॥ Dharaṇikośa 12.2.5
- धरणिकोश धरणरवणः शब्दने प्रोक्तो रवणो गर्दभः स्मृतः । धरणो मानभेदे स्याद्धरणी धारणे भुवि ॥ Dharaṇikośa 14.2.22
- धरणिकोश हिरण्यहिरण्यं मानभेदे स्याद्धने हेमन्यकुप्यके । ब्रह्मण्यो ब्रह्मसाधुः स्याद्ब्रह्मण्यश्च शनैश्चरः ॥ Dharaṇikośa 25.2.37
- धरणिकोश वराहप्रवाहो जलवेगेऽपि पारम्पर्यानुवर्तने । वराहः शूकरे विष्णौ मानभेदेऽम्बुदे गिरौ ॥ Dharaṇikośa 32.2.9
- कोषकल्पतरु प्रस्थग्रन्थिः पुमान्पर्वणि पर्वरोग- प्रभेदकौटिल्यगतः प्रदिष्टः । नाथः प्रभौ चर्मपुटे पशूनां प्रस्थोऽस्त्रियां सानुनि मानभेदे ॥ १ ॥ Koṣakalpataru 6.18.1
- कोषकल्पतरु कुटपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
- नानार्थार्णवसंक्षेप उद्घातगजस्य कर्णमूलाच्च चूलिकासंज्ञकात् परे । प्रदेशे मानभेदे च प्राणायामस्य कालतः ॥ ४४ ॥ Nānārthārṇavasaṃkṣepa 3.2.44
- नानार्थार्णवसंक्षेप मुरवमानभेदे वाद्यभेदे मुर्मुरस्तु तुषानले । ज्वलदङ्गारपूर्णाग्नौ त्वपरेऽथ मुकुन्दवाक् ॥ १७८ ॥ Nānārthārṇavasaṃkṣepa 3.2.178
- नानार्थार्णवसंक्षेप हिरण्यकर्णीरथाख्ये च तथा रथभेदेऽथ काञ्चने । हिरण्यं मानभेदे च धने चापि कपर्दके ॥ ९१ ॥ Nānārthārṇavasaṃkṣepa 3.3.91
- शब्दरत्नावली किष्कुकिष्कुर्हस्ते वितस्तौ च मानभेदेऽपि च द्वयोः । छेकः स्यान्नागरे वेश्मसंस्थयोर्मृगपक्षिणोः ॥ Śabdaratnāvalī 7.1.8
- शब्दरत्नावली आटकीआनको रसदभ्रे तु भेरीपटहमर्दने । आटकी स्त्री तुवर्यान्तु मानभेदे भवेत् त्रिषु ॥ Śabdaratnāvalī 7.1.32
- शब्दरत्नावली कुण्डक्रीडा केलिप्रभेदे स्यादवज्ञाखेलयोरपि । कुण्डं वह्निगृहे मानभेदे सुरजलाशये ॥ Śabdaratnāvalī 7.13.4
- शब्दरत्नावली एषणीईक्षणं नयने दृष्टौ ईरिणं शून्य उषरे । उषणा स्त्रीकणायां स्यादुषणं मरिचेऽपि च ॥ एषणी व्रणमार्गानुसारिण्यां मानभेदके । करुणा स्त्री कृपायाञ्च करुणो रसवृक्षयोः ॥ Śabdaratnāvalī 7.15.26
- शब्दरत्नावली धरणधरणं स्यान्मानभेदे धारणे धरणी भुवि । धरुणः सम्मते स्वर्गे सलिले च पितामहे ॥ Śabdaratnāvalī 7.15.40
- शब्दरत्नावली अद्रिअद्रिः पुंसि द्रुमे शैले मावभेदे च भास्करे । आरः शनैश्चरे भौमे त्वग्भेदिन्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.27.4
- शब्दरत्नावली वाहवाहो द्वयोर्भुजे पुंसि मानभेदे हये वृषे ॥ Śabdaratnāvalī 7.33.11
- शब्दरत्नाकर द्रोणमानभेदे पितर्यश्वत्थाम्नो गुल्मान्तरेऽपि च । स्याद्गुणेतरवाताद्योर्दोष एनसि दुर्विधौ ॥ १९३८ ॥ Śabdaratnākara 4.1.1938
- शब्दरत्नाकर धरणधारणे मानभेदे च धरणं धरणी मही । धावनं गमने शुद्धौ स्थितौ विश्वे च धारणा ॥ २१०७ ॥ Śabdaratnākara 4.1.2107
- शब्दरत्नाकर हिरण्यहिरण्यं कनके द्युम्ने नाम(मान?)भेदेऽप्यकुप्यके । हरिणी तु मृगो हेमप्रतिमा हरिणो मृगे ॥ २१८८ ॥ Śabdaratnākara 4.1.2188
- त्रिकाण्डशेष द्रोणकाष्ठागारेऽम्बुवाहिन्यां शैलसन्धौ च योषिति । द्रोणी न स्त्री मानभेदे द्रोणः काके कृपीपतौ ॥ १३० ॥ Trikāṇḍaśeṣa 3.3.130
- त्रिकाण्डशेष सुवर्णपद्मं च श्रमणा भिक्षुक्यां मुण्डीर्यां च दृश्यते । सुवर्णं मानभेदेऽपि स्थूणा शूर्मी च दारु च ॥ १४१ ॥ Trikāṇḍaśeṣa 3.3.141
- त्रिकाण्डशेष हिरण्यहिरण्यं रेतसि स्वर्णे मानभेदे वराटयोः । उरस्यपि च बुक्कायां हृदयं मानसेऽपि च ॥ ३२५ ॥ Trikāṇḍaśeṣa 3.3.325
- त्रिकाण्डशेष पौरुषदक्षः प्रजापतौ ताम्रचूडे हरवृषे पटौ । पौरुषं मानभेदे च पुन्नागे पुरुषो नरे ॥ ४३९ ॥ Trikāṇḍaśeṣa 3.3.439
- वैजयन्ती हिरण्यहिरण्यं काञ्चने वित्ते मानभेदेऽप्यकुप्यके । हरणं करणे नृत्ते चापेनान्यास्त्रवारणे ॥ ३९ ॥ Vaijayantī 7.3.39