कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वालुक

vālukaक्ली · neut.

In 10 kośas: 10 synonym verses, 4 as a nānārtha head word, 3 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.121
एलावालुकमैलेयं सुगन्धि हरिवालुकम् ।वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.388 · p. 63
अपि स्याच्छंकरावासः पांसुः शीतकरः पुनः ।पिञ्जोब्जसारः सारोपि जूटिका वालुकः पुनः ॥ ३८८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.500 · p. 305
हरिवालुकमेलाह्वं मालुकं वालुकं दृढम् ।एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं पुनः ॥ ५०० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.94 · p. 167
एल्वालुकं कुष्ठगन्धि वालुकं च सुगन्धि च ।सुवर्णप्रसरं चाथ स्थौणेयं ग्रन्थिपर्णकम् ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.34 · p. 305
आदीपनौ दारदश्च मकरश्च परे पुनः ।अहिच्छत्रो मेषशृङ्गो कुष्ठ-वालुक-नन्दनाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.233 · p. 128
एलावालुके त्वैलेयं वालुके हरिवालुकम् ।सुगन्ध्यालुकमेल्वालं दुर्वर्णं प्रसरं दृढम् ॥ २३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.221 · p. 74
एलवालुकामैलेयमेलबालञ्च वालुकम् ।स्यादैलवालुकं वालु सुगन्धि हरिवालुकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.239 · p. 237
दन्त्य-तालव्याद्याथाखुपर्ण्यां चित्रोपचित्रया ।ऐलवालुके वेलेयं वालुकं हरिवालुकम् ॥ २३९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable); pāda 3, syllable 5 के (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.96 · p. 131
वालुकं चाथ शैलेयं वृद्धं गिरिशिलाह्वयम् ।कालानुसार्यं पाषाणपुष्पं शितशिवं शिवम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.23 · p. 149
कालकूटः कटोऽथ स्याद्गौरार्द्रो ब्रह्मवालुकम् ।ब्रह्मघोषश्च घौषश्च पुंडरीकं तु वालुकम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.45 · p. 11
[8] वालुका सिकता प्रोक्ता वालुकं चैलवालुकम् ।नीलिका क्षुद्ररोगः स्यान्नीली शेफालिकापि च ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1678 · p. 193
वालुका तु स्त्रियामुक्ता सिकतासु नपि त्वदः ।एलावालुकसंज्ञे स्याद् भेषजेऽपि विषान्तरे ॥ १६७८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1679 · p. 193
पुण्डरीकसमाख्येऽथ वाचालो भेद्यलिङ्गकः ।बहुगर्ह्यगिरि स्त्री तु शारिकासंज्ञपक्षिणि ॥ १६७९ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.39 · p. 4
वालुकं न द्वयोर्मूत्रफले च हरिवालुके ।भूतीकं दीप्यकर्पूरसिल्हकस्तृणकत्तृणे ॥ ३९ ॥
अनुष्टुप्

वालुक as a meaning in nānārtha verses

  • कोषकल्पतरु शिवशिवस्तु शंभौ नरि गुग्गुलौ च वेदे च योगान्तरके च कीले । स्यात्पुण्डरीकद्रुमवालुके च स्त्रियां तु झाटामलकौषधौ स्यात् ॥ ९५ ॥ Koṣakalpataru 6.29.95
  • शिवकोष इक्षुगन्धइक्षुगन्धः सुगन्धौ स्यात्त्रिषु क्लीबं तु वालुके । उग्रगन्धाजमोदायां वचायां क्षुद्विबोधने ॥ २३९ ॥ Śivakoṣa 15.3.239
  • शब्दरत्नावली सुगन्धिसमर्थने च नीलाके स्यादिन्द्रियनिरोधने । सुगन्धिवालुके क्लीबं दूष्टगन्धे भवेत् त्रिषु ॥ Śabdaratnāvalī 7.19.37