कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मूर्ख

mūrkhaवि · adj.

In 15 kośas: 13 synonym verses, 49 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.18 · p. 18
दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ ॥मूढो मन्दो यथाजातो बालो मातृमुखो जडः ।मूर्खोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः ॥ ३५२ ॥देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.88
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.336 · p. 40
वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः ।मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.119 · p. 33
लोहलोस्फुटवाचि स्याज्जडे नामविवर्जितः ।मूर्खो मन्दोऽपि तुन्दस्य पर्यायपरिमार्जकः ॥ ११९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.15 · p. 2
ज्ञाता तु विदुरो विन्दुर्यथाजातस्तु बालिशः ।देवानांप्रिय-मूर्खाज्ञ-मूढ-वैधेय-पामराः ॥ १५ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 166 · p. 80
मुग्धो मूढो जडो नेडो मूको मूर्खश्च कद्वदः ।स देवानां प्रियोऽप्राज्ञो मन्दः धीनामवर्जितः ॥ १६६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.17 · p. 103
वदन्यो दानशीले स्याद्वदान्योऽपि च दृश्यते ।मूर्खो बालो जडोऽमेधो विवर्णो मातृशासितः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.117 · p. 31
मूर्खो मन्दो जडो मूढो बालोऽज्ञो जाल्मबालिशौ ।शठः कुण्ठश्च वठरो निर्बुद्धिश्च निरक्षरः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.520 · p. 66
वदान्यस्तु वदन्यश्च दानशीलः स कथ्यते ।अथ मूर्खो यथाजातो बालिशो मातृशासितः ॥ ५२० ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.65 · p. 163
मूर्खो मूढाज्ञवैधेययथाजाताश्च वालिशः ।कदर्ये कृपणः क्षुद्रः किम्पचानः मितम्पचः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1638 · p. 197
स्तुतनुतशस्तपनायितपनितेडितपणायितं पणितम् ।मूढे मूर्खवृथाजातमातृशिष्टाज्ञबालिशाः ॥ १६३८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.5 · p. 72
मूर्खः पुरीषलो माषो राजमाषस्तु वर्वटः ।फुल्लपालः शूर्पवाते न स्त्री तितउ चालनी ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.21 · p. 202
मूर्खे त्वनेडो देवानांप्रियो यो नामवर्जितः ।अपि वैधेयमूढाज्ञा मातृशिष्टयथोद्गतौ ॥ २१ ॥
अनुष्टुप्
genderविadj.

मूर्ख as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् पृथग्जनभूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥ Amarakośa 3.3.105
  • नामलिङ्गानुशासनम् बालमूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः । Amarakośa 3.3.387
  • हलायुधकोशः (अभिधानरत्नमाला) अव्यक्तअव्यक्तः परमात्मनि मूर्खे स्पष्टेतरे च निर्दिष्टः । कक्षा गुह्यपिधाने काञ्च्यां गेहे प्रकोष्ठे च ॥ ८४२ ॥ Abhidhānaratnamālā (Halāyudha) 5.842
  • धरणिकोश जडइडा चन्द्रकलाद्यं स्यागवि भूमौ च वाचि च । जडो मूर्खे हिमग्रस्ते शूकशिम्बी जडा मता ॥ Dharaṇikośa 12.1.7
  • धरणिकोश पृथग्जनप्रयोजनं कार्यहेत्वोरायोधनं रणे हतौ । पृथग्जनौ नीचमूर्खौ आत्मयोनी विधिस्मरौ ॥ Dharaṇikośa 19.1.22
  • धरणिकोश बालिशस्पशौ प्रणिधिसंग्रामावाशू च व्रीहिसत्वरौ । निस्त्रिंशौ क्रूरखड्गौ तु बालिशो मूर्खशावकौ ॥ Dharaṇikośa 29.1.2
  • कोषकल्पतरु लिगुश्रीकीर्तिमाहात्म्यसमर्थतासु ज्ञानस्पृहामुक्तिवृषेषु नार्के । युगं चतुष्के च करस्य सीर- रथाङ्गयोर्युग्मकृतादिकेषु । यूपेऽस्त्रियां मानपरः पुमान्स्या- न्मूर्खे पराभं लिगु मानसेऽन्त्ये ॥ ९२ ॥ Koṣakalpataru 6.3.92
  • कोषकल्पतरु जडजडोऽन्यवन्मूर्खहिमातुरेषु शूकस्य शिम्बी गदिता जडेति । ग्रन्थौ तु पृष्ठस्य गडुश्च कुब्जे व्याडिस्तु हिंस्रेऽपि पशौ भुजंगे ॥ ६९ ॥ Koṣakalpataru 6.12.69
  • कोषकल्पतरु दुःस्थनील्यां च सूक्ष्मत्रुटिगश्च स स्त्री दुःस्थोऽन्यवद्दुर्गत मूर्खवाची । मन्थस्तु मन्थानकदृ[2b]ग्गदार्थे ग्रन्थस्तु संदर्भधनप्रबन्धे ॥ ९६ ॥ Koṣakalpataru 6.18.96
  • कोषकल्पतरु शीनशीनस्तु मूर्खेऽजगरेऽन्यवत्तु स्त्यानेऽथ चीनो मृगवस्त्रभेदे । व्रीहिप्रभेदेऽपि च तन्तुभेदे वेनो विरिञ्चावपि राजभेदे ॥ ९० ॥ Koṣakalpataru 6.21.90
  • कोषकल्पतरु पृथग्जननीचे च मूर्खेऽथ कृ[20b]तौ च हेतौ प्रयोजनं स्याद्बलिदानवे तु । वैरोचनः स्यात्सुगतेऽर्कपुत्रे विरोचनस्त्वग्निरवीन्दुषु स्यात् ॥ ६ ॥ Koṣakalpataru 6.21.6
  • कोषकल्पतरु वठरमाणिक्यखण्डेऽपि सुदाडिमाभे ऽथो विष्टरः पुंसि महीरुहे स्यात् । अस्त्र्यासने स्यादपि दर्भमुष्टौ मूर्खे शठे स्याद्वठरश्च वस्त्रे ॥ ९२ ॥ Koṣakalpataru 6.27.92
  • कोषकल्पतरु बालमूर्खे पुमान्वारणवाजिपुच्छे करेऽप्युदीच्ये गदितः स्त्रियां न । वाली तु मेधावपि कर्णभूषा- न्तरेऽथ बाला त्रिपुटास्त्रियोः स्यात् ॥ ६४ ॥ Koṣakalpataru 6.28.64
  • कोषकल्पतरु स्थूलस्थूलं तु कूटे [त्रिषु] पीव्नि मूर्खे थाम्लो[67a]ऽम्लवत्पुंसि रसान्तरे स्यात् । चाङ्गेरिकायां पुनरीरिता स्त्री शुक्लस्तु योगे धवले पुमान्स्यात् ॥ ७१ ॥ Koṣakalpataru 6.28.71
  • कोषकल्पतरु बालिशबाले च मूर्खेऽथ मुनौ सलोम्नि स्याल्लोमशो मद्रकवाचकश्च । कासीसकेऽन्त्ये जटिलाशृगाल्योः स्त्री शूकशिम्ब्यामपि मर्कटीषु ॥ १६ ॥ Koṣakalpataru 6.30.16
  • नानार्थार्णवसंक्षेप बालककुभाख्ये नृशण्डस्तु शरतद्भेदयोरथ । वाणा नृस्त्री नीलझिण्ट्यां बालस्तु शिशुमूर्खयोः ॥ ८५० ॥ Nānārthārṇavasaṃkṣepa 2.5.850
  • नानार्थार्णवसंक्षेप कमरमूर्खे च कामुके चाथ कनीयांस्तु जघन्यजे । युवतरे चाल्पतरे क्षुल्लकस्त्वल्पनीचयोः ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 3.4.21
  • नानार्थार्णवसंक्षेप बालिशप्रोक्षितं निहते सिक्ते बहुलं त्वपि पुष्कले । सान्द्रे च बालिशस्तु स्याद् बाले मूर्खेऽथ बेटकः ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 3.4.43
  • नानार्थार्णवसंक्षेप अव्यक्तप्रधानाख्ये त्रिषु पुनरस्पष्टे मूर्ख एव च । रभसस्तु प्रमाद्याह परमात्मन्यमुं नपि ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 4.45
  • नानार्थार्णवसंक्षेप शकलरागद्रव्यविशेषे च वल्कलेऽप्यथ भेद्यवत् । शकलो मूर्खधनिनोर्नीवृद्भेदे नृभूमनि ॥ १७८३ ॥ Nānārthārṇavasaṃkṣepa 4.1783
  • नानार्थार्णवसंक्षेप पृथग्जनपुरुभोजास्तु मेघे च गिरौ चाथ पृथग्जनः । मूर्खे नीचे तथा पोटगलस्तु नडसंज्ञके ॥ ९३ ॥ Nānārthārṇavasaṃkṣepa 6.93
  • परमानन्दीयनाममाला देवमेघे [25] मूर्खे द्विजो विप्रे दन्तनीडजयोरपि । द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ Paramānandīyanāmamālā 5.16.240
  • परमानन्दीयनाममाला सालिसीता तु जानकी देवसिन्धुर्लाङ्गलपद्धतिः । सालिर्भुजंगमे कीले मूर्खे रोगे युगान्तरे ॥ ३६३ ॥ Paramānandīyanāmamālā 5.27.363
  • शब्दरत्नावली अर्भकअम्लिकाऽम्लोद्गारचिञ्चापाचाचाङ्गेरिकासु च । अर्भकः स्यात् कृशे स्वल्पे तथा मूर्खे च वालके ॥ Śabdaratnāvalī 7.1.31
  • शब्दरत्नावली बालकबालकः स्यात् शिशौ मूर्खे पुच्छे च हयहस्तिनोः । अङ्गुरीये च ह्रीवेरे निर्वणे वलये पुमान् ॥ Śabdaratnāvalī 7.1.112
  • शब्दरत्नावली अज्ञअज्ञो जडे च मूर्खे च प्राज्ञः पण्डितदक्षयोः । प्रज्ञा बुद्धिसरस्वत्यो राज्ञी छायानृपस्त्रियोः ॥ Śabdaratnāvalī 7.10.2
  • शब्दरत्नावली कुण्ठस्थानमात्रे दिशि स्त्री तु काष्ठं दारुणि न द्वयोः । कुण्ठः स्यादलसे मूर्खे कुष्ठं पुष्कररोगयोः ॥ Śabdaratnāvalī 7.12.4
  • शब्दरत्नावली शोठशोठो मूर्खेऽलसे धूर्ति नीचे पापरतेऽपि च । षष्ठी रेमवतीतिथ्योः षण्णाञ्च पूरणे त्रिषु ॥ Śabdaratnāvalī 7.12.8
  • शब्दरत्नावली जडजडो मूकहिमग्रस्तमूर्खेषु शिखिषु स्त्रियाम् । ताडी पत्रद्रुमे ना तु ताडने मुष्टिशब्दयोः ॥ Śabdaratnāvalī 7.13.15
  • शब्दरत्नावली दुःस्थगन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च । ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥ गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते । तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥ उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि । तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥ दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु । प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥ Śabdaratnāvalī 7.17.3
  • शब्दरत्नावली निर्ग्रन्थदमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः । निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥ प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् । वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥ मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः । भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥ Śabdaratnāvalī 7.17.13
  • शब्दरत्नावली मन्दभेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः । मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः ॥ मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥ Śabdaratnāvalī 7.18.6
  • शब्दरत्नावली आविद्धअगाधमतलस्पर्शो त्रिषु छिद्रे तु न द्वयोः । आविद्धः कुटिले मूर्खे वाच्यलिङ्गः पराहते ॥ Śabdaratnāvalī 7.19.23
  • शब्दरत्नावली दुर्विधजले क्लीबं पुंसि कुक्षौ राहौ च राक्षसान्तरे । दुर्विधः पिशुने मूर्खे दुर्गते वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.19.27
  • शब्दरत्नावली शानवानं शुष्के शुष्कफले स्यूतिकर्मकरे गतौ । शानस्त्वजगरे मूर्खे श्येनः पाण्डौपतत्रिणि ॥ Śabdaratnāvalī 7.20.19
  • शब्दरत्नावली पृथग्जनप्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः । पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥ पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि । पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥ फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते । वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥ भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि । महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥ महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् । मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥ महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे । मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥ Śabdaratnāvalī 7.20.118
  • शब्दरत्नावली मुहिरमसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥ मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥ मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥ मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ Śabdaratnāvalī 7.27.96
  • शब्दरत्नावली बालबालः केशे शिशौ मूर्खे वालधौ वालमौषधौ । बालाऽलङ्कारभेदे स्याद्योषिति स्त्रीत्रुटावपि ॥ Śabdaratnāvalī 7.28.28
  • शब्दरत्नावली भेलभेलः प्लवे मुनौ भीरौ मूर्खेऽपि चञ्चलेऽपि च । मलं पापे विटकिट्टे कृपणे वाच्यवत्क्वचित् ॥ Śabdaratnāvalī 7.28.30
  • शब्दरत्नावली बालिशबालिशी बालके मूर्खे भूकेशः शैवले वटे । भूकेशी वल्लजेऽपि स्याद्भुकेश राक्षसीभिदि ॥ Śabdaratnāvalī 7.30.22
  • शब्दरत्नावली माषभिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि ॥ मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः ॥ मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.31.11
  • त्रिकाण्डशेष अज्ञअज्ञस्त्रिषु जडे मूर्खे कृतज्ञः कुक्कुरेऽपि च ॥ ८९ ॥ Trikāṇḍaśeṣa 3.3.89
  • त्रिकाण्डशेष शोठताम्रे चोरुतरे चाऽथ मध्यस्थखलयोः शठः । शोठोऽलसे च मूर्खे च सूत्रकण्ठो द्विजन्मनि ॥ १०९ ॥ Trikāṇḍaśeṣa 3.3.109
  • त्रिकाण्डशेष माषपक्षौ मासार्द्धपार्श्वौ च महिषी राजपत्न्यपि । मूर्खे माने फले माषो मेषौ राश्यन्तरोरणौ ॥ ४४० ॥ Trikāṇḍaśeṣa 3.3.440
  • वैजयन्ती बालबालो मूर्खे शिशौ भव्यो भावी योग्यः शुभोऽपि च । मिश्रेऽपि भिन्नं म्लिष्टं तु म्लानाविस्पष्टवाक्ययोः ॥ ११ ॥ Vaijayantī 6.4.11
  • वैजयन्ती बालिशमिश्रास्निग्धौ च परुषौ प्रगाढो गहने दृढे । पामरोऽपशदेऽज्ञे च बालिशो बालमूर्खयोः ॥ २० ॥ Vaijayantī 7.4.20
  • वैजयन्ती विवर्णविगतौ वीतनिस्पृहौ विविक्तौ शुद्धनिर्जनौ । विवर्णौ मूर्खदुर्वर्णौ व्यायतो व्यापृते दृढे ॥ २४ ॥ Vaijayantī 7.4.24
  • वैजयन्ती अव्यक्तप्रधानेऽव्यक्तमव्यक्तो ब्रह्मण्यस्पष्टमूर्खयोः । अमरेन्द्रपुरी स्थूणा गुडूची चामराः सुराः ॥ १३ ॥ Vaijayantī 7.5.13
  • वैजयन्ती पृथग्जनअग्निरुद्रौ पशुपती नाशावज्ञे पराभवौ । रक्षः सन्तौ पुण्यजनौ नीचमूर्खौ पृथग्जनौ ॥ २६ ॥ Vaijayantī 8.1.26