कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

व्यूढ

vyūḍhaवि · adj.

In 11 kośas: 7 synonym verses, 5 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1430 · p. 54
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.699 · p. 81
वृहदुरु गुरु विस्तीर्णं पुरु पृथु पृथुलं महद्विशालं च ।व्यूढं विपुलं रुद्रं वरिष्ठमेकार्थमुद्दिष्टम् ॥ ६९९ ॥
आर्या
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.85 · p. 20
उरु व्यूढं च विपुलं स्फारं गुरु ततं बृहत् ।महद्बहु च विस्तीर्णं वरीयस्तु वरिष्ठवत् ॥ ८५ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.319 · p. 91
उदग्रमथ नीचैव मन्थरं कुब्जवामने ।खर्वं ह्रस्वं पृथौ व्यूढं विशालं पृथुलं पुनः ॥ ३१९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.689 · p. 116
विस्तीर्णे विकटं व्यूढं विकरालं च विस्तृतम् ।विशङ्कटं विशालं च वद्रं स्थूलं बृहत्पृथु ॥ ६८९ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2600 · p. 419
विशङ्कटं विशालं च विस्तीर्णं विकटं महत् ।वरिष्ठं विपुलं व्यूढं वड्रं ततं तथा बृहत् ॥ २६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.80 · p. 207
विशालमुरु विस्तीर्णं विपुलं पृथुलं पृथु ।स्फारं भद्रं बृहद्व्यूढमुदूढं बहुलं बहु ॥ ८० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.88
शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास ढार्धश्लोकः Dharaṇikośa 13.2.1 · p. 47
व्यूढः पृथुतरे ख्यातो न्यस्तसंहतयोरपि ।दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ द्विढाः Koṣakalpataru 6.14.94 · p. 192
तन्द्रालुशिश्वोः परवच्च मूढोगूढोऽपि चेत्संवृतवाचकः स्यात् ।क्लीबे रहो गुह्यगतेऽथ वड्रेव्यूढं कृतेऽपि त्रिषु संहते च ॥ ९४ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.4.27 · p. 42
विद्वान् विदद्बुधात्मज्ञेष्वाहान्यो विदुरेऽप्यमुम् ।व्यूढं विन्यस्तविस्तीर्णसंहतेष्वथ वैरिवाक् ॥ २७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ढान्ताः Śabdaratnāvalī 7.14.3 · p. 206
दृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः ।माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने ॥मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः ।बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः ॥व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)

व्यूढ as a meaning in nānārtha verses