कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सरसीरुह

sarasīruhaक्ली · neut.

In 14 kośas: 13 synonym verses, 5 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.62
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ।पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.139 · p. 359
स्यात्सरःसरसीपङ्कपर्यायेभ्यो रुहार्थकम् ।एभ्यो जन्मार्थकं चापि जलार्थादपि जार्थकम् ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.8 · p. 111
राजीवं कमलं नलं शतदलं पङ्केरुहं पङ्कजंपाथोजं सरसीरुहं सरसिजं नालीकमम्भोरुहम् ।अम्भोजन्म कुशेशयं च जलजं कंजं करुट् पुष्करंश्रीपर्णं च सहस्रपत्रम[71a]रविन्दाह्वं कचारं तथा ॥ ८ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.9 · p. 111
स्त्री नोत्पलं तामरसं च सारसंबिसप्रसूनं सरसीरुहं च ।प्रोक्तं तु पद्मं नलिनं च न स्त्रियांश्रीवासमत्राम्बुजमस्त्रियां च ॥ ९ ॥
upajati mixed
genderपुंक्लीm. n.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 20 · p. 10
परिषत्कर्दमः पङ्कः तज्जम् तामरसं विदुः ।कमलं नलिनं पदम् सरोजं सरसीरुहम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.84 · p. 134
सहस्रपत्रं राजीवं शतपत्रं कुशेशयम् ।बिसप्रसून(नं?)तोयोत्थं पुष्करं सरसीरुहम् ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.295 · p. 21
पङ्कजं कमलं पद्मं नलिनं सरसीरुहम् ।पङ्केरुहं तामरसं सारसं पुष्करं कजम् ॥ २९५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.128 · p. 14
वि[बि]सप्रसूनं नलिनं शतपत्रं सरोरुहम् ।सहस्रपत्रं जलजं सरोजं सरसीरुहम् ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2091 · p. 346
पद्मं बिसप्रसूतं च सरोजन्म सरोरुहम् ।कुशेशयं सरोरुट् च सरोजं सरसीरुहम् ॥ २०९१ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.133 · p. 45
पद्मपङ्कजपङ्केजं पुष्पकाम्भोजमम्बुजम् ।अम्भीरुहं सरसिजं राजीवसरसीरुहम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.245 · p. 238
सरसीरुहं सरसिरुहं विसप्रसूतवत् ।विसप्रसूनमपि स्यात्कैरविण्यां कुमुद्वती ॥ २४५ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.358 · p. 48
सरसीरुहतामरसे सारसमम्भोरुहं कमलम् ।सहस्रपत्रं राजीवं नालीकं बिसनाभिजम् ॥ ३५८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.37 · p. 157
सरसीजं सरसिजं सारसं सरसीरुहम् ।सरोजमब्जमप्पुष्पमरविन्दम्महोत्पलम् ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.

सरसीरुह as a meaning in nānārtha verses