कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उदवसित

udavasitaक्ली · neut.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.79 · p. 39
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.5
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.291 · p. 35
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.35 · p. 12
निशान्तं धाम शरणं कुलं गेहं निकेतनम् ।अगारं चोदवसितमागारं चाधिवासनम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.34 · p. 122
आगारं स्यादुदवसितमगारं गृहं चोक्तमोकोवस्त्यं पस्त्यं सदन-शरणे सादनं धाम धामम् ।धिष्ण्यं धर्त्रं विशिपकुलयुक् समवाश्रं च (?) घरं स्याद्--वेश्याथास्मिन्मणिविरचिते न स्त्रियां कुट्टिमः स्यात् ॥ ३४ ॥
metre not recognisednearly मन्दाक्रान्ता
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1698 · p. 273
स्थानञ्च निलयो पस्त्यं संस्त्यायः शरणं सभा ।उदवसितमाऽऽवासो भवनं वसतिस्तथा ॥ १६९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.11 · p. 50
गृहं सदनमागारमगारञ्च निकेतनम् ।गेहोदवसितं वस्त्यं निशान्तं वेश्म केतनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.35 · p. 220
सत्रं सार्त्रं वस्त्यं पस्त्यं निवासा-ऽऽवास-वासकाः ।आवसथो वसितश्चोदवसितं न्याङ्युग्लयः ॥ ३५ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.841 · p. 106
पूर्द्वाःकूटं हस्तिनखः पुरद्वारं तु गोपुरम् ।गृहमुदवसितं निकेतमोकः शरणमगोरनिशान्तधाम वस्त्यम् ॥ ८४१ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.19 · p. 160
न नोदवसितं न स्त्री गेहं पुंभूम्नि वा गृहम् ।महाकीर्तनमोकश्च केतरं केतनं क्षयः ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.