शरण
śaraṇaक्ली · neut.In 15 kośas: 14 synonym verses, 5 as a nānārtha head word, 3 as a meaning of another word.
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderक्लीneut.
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।अपवरकं गर्भगृहं संजवनं स्याच्चतुःशालम् ॥ २९२ ॥
आर्याmetre not read in every line
genderक्लीneut.
निशान्तं धाम शरणं कुलं गेहं निकेतनम् ।अगारं चोदवसितमागारं चाधिवासनम् ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
परायणोऽल्पशरणकार्मणानां ततः पुनः ।क्षुस्यधोरणभूतानां निशान्ताश्मन्तयोरपि ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
आगारं स्यादुदवसितमगारं गृहं चोक्तमोकोवस्त्यं पस्त्यं सदन-शरणे सादनं धाम धामम् ।धिष्ण्यं धर्त्रं विशिपकुलयुक् समवाश्रं च (?) घरं स्याद्--वेश्याथास्मिन्मणिविरचिते न स्त्रियां कुट्टिमः स्यात् ॥ ३४ ॥
metre not recognisednearly मन्दाक्रान्ता
genderक्लीneut.
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
वसत्यावसथावासं स्थानं धामास्पदं पदम् ।निकायं निलयं पस्त्यं शरणं विदुरालयम् ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
अगारं शरणं पस्त्यं संस्त्यायावसथावपि ।स्थानौकसी गृहा भूम्नि क्षयकूटौ तथा कुलम् ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
करोटं मोरटं भाण्डं तुण्डाण्डे शरणेरणे ।लवणं द्रविणशृङ्गाटपिटपारायणानि च ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः ।प्रासाद आलयः सौधं हर्म्यं गेहं कुटाश्रयौ ॥ ६९ ॥
अनुष्टुप्
genderक्लीneut.
स्थानञ्च निलयो पस्त्यं संस्त्यायः शरणं सभा ।उदवसितमाऽऽवासो भवनं वसतिस्तथा ॥ १६९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderक्लीneut.
जूर्णाह्वयश्च जोन्नाला देवधान्यं तथैव च ।मातुलानी शरणं भङ्गा भवेदुमा क्षुमाऽतसी ॥ २१२५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पूर्द्वाःकूटं हस्तिनखः पुरद्वारं तु गोपुरम् ।गृहमुदवसितं निकेतमोकः शरणमगोरनिशान्तधाम वस्त्यम् ॥ ८४१ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
यज्ञोपवीतोपवीते ब्रह्मसूत्रोत्तरीययोः ।गंभीरं गहनं रत्नं गह्वरं शरणं वपुः ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
कर्णे श्रुतौ च श्रवणं शरणं मारणेऽपि च ।श्रेणिः पङ्क्तौ सेकपात्रे ने क्लीबं कारुसंहतौ ॥ १३९ ॥
अनुष्टुप्
meaningsमारण
शरण as a meaning in nānārtha verses
- कोषकल्पतरु गतिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
- नानार्थार्णवसंक्षेप गतिउपाये च दशायां च यिशब्दे सामगीतिगे । गन्तव्ये पुण्यपापाभ्यां प्रस्थाने शरणेऽपि च ॥ ३० ॥ Nānārthārṇavasaṃkṣepa 2.1.30
- नानार्थार्णवसंक्षेप फालनिष्पत्तौ शरणेऽथ क्ली तक्कोले च फलस्य तु । विकारादौ त्रि फुल्लं तु त्रये विकसने त्रि तु ॥ ८३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.831