सद्मन्
sadmanक्ली · neut.In 16 kośas: 13 synonym verses, 4 as a nānārtha head word, 9 as a meaning of another word.
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderक्लीneut.
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
उपकार्याथ सौधोऽस्त्री सद्म धामापि राजतः ।चन्द्रशाला तु वलभिर्वलभी चन्द्रशालिका ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderक्लीneut.
एते शब्दाः पुंसि भवन्ति । अयं कललो गर्भाशयः । कफः श्लेष्मा । पूयः शोणितविकारः । कुल्माषः सस्यजातिः । कल्कः सर्षापादीनां चूर्णम् । कल्पः कालपरिमाणम् । गेहं गृहम् । मखो यज्ञः । लौहित्यो नदविशेषः । झर्झरो वादित्रविशेषः । पुङ्खः शरस्य । चषालो यूपाग्रम् । कटाहो लोहभाजनम् ।मत्स्यो मीनः ।शवपलकतल्पसद्मबलिशामिशनिमित्तपित्तचित्तानि ।किल्बिषवृजिनानि तथा नपुंसके पीठपापे च ॥ ५९ ॥
metre not recognised
genderक्लीneut.
सदनं सद्म भवनं धिष्ण्यं वेश्माथ मन्दिरम् ।गेहं निकेतनागारं निशान्तं निवृतं गृहम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
मार्गत्रयं च शृङ्गाटं चत्वरं बहुपथं स्मृतम् ।मन्दिरं सदनं गेहं गृहं सद्म निकेतनम् ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
आपणो विपणिः पण्यवीथिका हट्टकोऽट्टकः ।पल्लीग्रामो गृहं गेहं वेश्म सद्म निकेतनम् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
मन्दिरं सदनं सद्म निलयो भवनं गृहम् ।ओको निवास आवासो धिष्ण्यं धाम निकेतनम् ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
अगारञ्च गृहं गेहं सदनं सद्म मन्दिरम् ॥ १६९६ ॥
अनुष्टुप्
genderक्लीneut.
सदनभवनवेश्मसद्मगेहावसथनिवेशनमन्दिरास्पदानि ।केचिदावसथं पुंसि निकेतं च प्रचक्षते ॥ ८४२ ॥
पुष्पिताग्राtwo metres in one verse
genderक्लीneut.
शय्यं निवसनं सद्म बुन्दिरं वेश्म मन्दिरम् ।निकार्यवासावसथनिकाय्यनिलयालयाः ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
सद्मन् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् ओकस्ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोम्बु च । Amarakośa 3.3.454
- धरणिकोश रोकस्बर्हिर्दर्भे हुताशे स्यादर्चिर्धाममयूखयोः । स्रोतोऽम्बुवेगेन्द्रिययो रोकश्चाश्रयसद्मनोः ॥ Dharaṇikośa 31.1.4
- कोषकल्पतरु ओकस्ओकोऽन्ति[मे]सद्मनि चाश्रयेऽन्त्ये ऽथानो जनन्यां शकटे च भक्ते । भक्तस्थले चाथ शिरः प्रधाने सेनाग्रभागेऽपि च मस्तके च ॥ Koṣakalpataru 6.31.35
- नानार्थार्णवसंक्षेप छद्मन्अनूहसामग्रन्थेऽथच्छद्म सद्मनि कैतवे । छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 2.3.24
- परमानन्दीयनाममाला निर्वातनिर्वातस्तु गते वाते गाढसंनाहसद्यनोः । निर्यूहः शेखरे नागदन्तनिर्यासयोरपि ॥ २७१ ॥ Paramānandīyanāmamālā 5.18.271
- परमानन्दीयनाममाला पुरआतपत्रे पुण्डरीकं कं शीर्षेऽथ द्रवे मधु । सद्माङ्गयोः पुरं क्लीबे घटार्थे खपुरं पुनः ॥ ७६ ॥ Paramānandīyanāmamālā 6.3.76
- शब्दरत्नावली पलिघउल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु । निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि ॥ पलिघः कलशे काचघटगोपुरसद्मसु । परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः ॥ प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥ Śabdaratnāvalī 7.4.8
- शब्दरत्नाकर छद्मन्छन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे । छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥ Śabdaratnākara 4.1.1923
- वैजयन्ती छद्मन्चैत्यं चितांके बुद्धाण्ड उद्देशेऽद्रौ मुरालये । चिह्नमंके पताकायां छद्म सद्मनि कैतवे ॥ ८ ॥ Vaijayantī 6.3.8