कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निकाय्य

nikāyyaपुं · masc.

In 11 kośas: 13 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.79 · p. 39
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.5
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.291 · p. 35
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.59 · p. 467
स्याच्छन्दतिष्यपुष्याणां पाञ्चजन्यनिकाय्ययोः ।सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.32 · p. 122
वासो निवासो निलयो निवेशःक्षयो निकाय्यावसथाश्रयाश्च ।प्राणन्त(?) आवास इहा[9a]लयः स्यात्संस्त्याय उक्तोऽत्र गृहा नृभूम्नि ॥ ३२ ॥
उपजातिःmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.20 · p. 96
कृमिर्निकाय्यः कणपश्च तिष्यःस्यात्पाञ्चजन्यः सिचयः कटप्रूः ।गिरिर्गुडेरः क्षुरकेदराराअमित्र-मित्रावपि वृत्र-पुण्ड्रौ ॥ २० ॥
उपजातिः
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.271 · p. 38
निकाय्यो नीलयो वेश्मालयो भवनमुच्यते ।धामावासो निवासोऽपि निशान्तं धिष्ण्यमाश्रयः ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.23 · p. 213
पुष्यो जनपदो रेफशोफौ सूपनितम्बकौ ।स्तम्बो निकाय्यः कण्डोलजगलौ गोलतण्डुलौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1697 · p. 273
आवसथस्तथाऽऽवास आलय आश्रयः क्षयः ।निवासो वेश्म निशान्तं निकाय्यश्च निकेतनम् ॥ १६९७ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.13 · p. 50
स्यान्निकाय्यो निवसनं केतो भवनमन्दिरम् ।आलयश्च गृहाः पुंसि भूम्नि कूटो द्वयोः सभा ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.36 · p. 221
निकाय्य-निकायौ स्यातां स्यादागारमगारवत् ।चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 5 चा (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.843 · p. 106
गृहाः पुंभूम्नि संस्त्यायो निकाय्यो निलयालयौ ।क्षयो वासः कूटमस्त्री शालाथ मुनिवेश्मनि ॥ ८४३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.18 · p. 160
शय्यं निवसनं सद्म बुन्दिरं वेश्म मन्दिरम् ।निकार्यवासावसथनिकाय्यनिलयालयाः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.63 · p. 295
आहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजेतार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः ।क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदेनिर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥
शार्दूलविक्रीडितम्