कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अश्मन्

aśmanपुं · masc.

In 16 kośas: 20 synonym verses, 1 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.155 · p. 40
स्नुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०३५ ॥ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्च्युताः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.5
पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ।
अनुष्टुप्
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.168 · p. 21
शिलोपलाश्मपाषाणग्रावाणः प्रस्तरो दृषत् ।गलिताः स्थूलपाषाणा गण्डशैला इति स्मृताः ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.187 · p. 83
दरी गुहा नितम्बश्च कन्दरः कटकोऽपि च ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला मणिः ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.22 · p. 343
द्वयोर्झरो निर्झरो ना स्फटिकः स्फाटिकः पुमान् ।नर्यश्मा प्रस्तरो ग्रावा पाषाणश्चोपलोऽस्त्रियाम् ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.66 · p. 468
अविराजिध्वनिशिशुकर्षूजायुयुजामपि ।हाहाहूहू नग्नहूनां गमत्पां दश्मनामपि ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.17 · p. 128
पाषाणः प्रस्तरो ग्रावा काठोऽश्मास्त्र्युपलः शिला ।शिलेयं स्याच्च शैलेयं शिलावत्त्रिषु यद्धनम् ।शिला दृषत्स्त्रियः पट्टः पेषणाश्मा दधद्(?) स्त्रियाम् ॥ १७ ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.18 · p. 96
फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्चस्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा ।आत्माग्निरह्नचरमास्त्वपरादहीनाःप्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥
वसन्ततिलका
genderपुंmasc.doubtful
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.314 · p. 43
प्रस्थे स्नुः सानुरस्त्री स्यादधोभूमिरुपत्यका ।अधित्यका तूर्ध्वभूमिः पाषाणाश्मदृषच्छिलाः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.29 · p. 214
हाहाहूहूर्नग्नहूर्गर्मुदंह्रीपादश्मानौ ------ यक्ष्मतुल्याः ।पञ्चाहाद्या ये समाहारगम्याःपुंलिङ्गे स्यात्स्थेमशब्देऽपि नन्तः ॥ २९ ॥
शालिनीmetre not read in every line
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.116 · p. 9
अश्मा दृष[श]त् शिला लोष्ठः पाषाणः प्रस्तरोपलौ ।मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.77 · p. 42
पाषाणः प्रस्तरो ग्रावा दृषदश्मोपलः शिला ।रेणुर्धूली रजः पांशुः पङ्कश्चिखिल्लकर्दमौ ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्चि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1787 · p. 292
पाषाणः प्रस्तरः ग्रावा चाऽश्मा दृषत् तथा शिला ॥ १७८७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.10 · p. 55
प्रस्तरग्रावपाषाणोत्पलाश्मानो दृशत् दृषत् ।परारुकः पारटीटो मृन्मरुः काठकः शिला ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.413 · p. 55
कुटुङ्गोऽस्त्री त्रयश्चामी वृक्षादिपिहितान्तरे ।प्रस्तरोपलपाषाणग्रावाश्मानः शिला दृषत् ॥ ४१३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव शैलवर्गः Trikāṇḍaśeṣa 2.3.5 · p. 36
अश्मा पझरुकः पाटः पारटीटश्च मुन्मरुः ।घर्षणालः शिलापुत्रो गृहाश्मा गृहकच्छपः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.3 · p. 269
अवटव्रातसङ्केतपोतगर्तगरुच्छदाः ।श्लेमोष्मपापयक्ष्माश्मात्मानो वातायनः स्तनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.8 · p. 41
कूटोऽस्त्री शिखरं शृंगं नितंबः कटकोऽस्त्रियाम् ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला दृषत् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.11 · p. 21
अप्तुस्तु याचके कालेऽप्यश्मा पाषाणमेघयोः ।आधिर्मानसपीडायामधिष्ठाने तथैव च ॥ ११ ॥
अनुष्टुप्

अश्मन् as a meaning in nānārtha verses