कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गर्दभाण्ड

gardabhāṇḍaपुं · masc.

In 11 kośas: 6 synonym verses, 17 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.43
गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः ।प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.104 · p. 260
प्लक्षः प्लवङ्गः प्लवगो गर्दभाण्डः कमण्डलुः ।महाबलोऽवरोहद्रुः क्षीरी शृङ्गी सुपार्श्वकः ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 139
कपीतनो गर्दभाण्डः कपिकृ(चू?)तः कमण्डलुः ।कन्दरालः सुपार्श्वश्च प्लवः पूगोऽपि मौग्धिगः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.86 · p. 63
गर्दभाण्डो गन्धभाण्डः कपीतनसुपार्श्वकौ ।प्लक्षश्च कन्दरालश्च प्लाक्षश्च कन्दरालकः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.486 · p. 64
पिण्डी तु रक्ताशोकः स्याद्गर्दभाण्डः कपीतनः ।कन्दरालः सुपार्श्वश्च प्लक्षोऽथो भूतपुष्पकः ॥ ४८६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.59 · p. 49
सुपार्श्वे स्यात् कन्दरालो गर्दभाण्डः कपीतनः ।ताम्रपाकी फलेपाकी प्लक्षको गन्धमुण्डकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.

गर्दभाण्ड as a meaning in nānārtha verses

  • धरणिकोश प्लक्षप्लक्षः पिप्पलपर्कट्योर्गर्दभाण्डे तरावपि । प्लक्षो वीतियके द्वीपे द्वारपार्श्वे गृहस्य च ॥ Dharaṇikośa 33.3.3
  • कोषकल्पतरु कवचकवचस्तु गर्दभाण्डे संनाहे चानके न स्त्री । विकचः क्षपणे केतु- ग्रहे स्फुटे तु भेद्याभः ॥ १० ॥ Koṣakalpataru 6.5.10
  • कोषकल्पतरु अश्वत्थस्त्रीत्वामलक्यां च गुडूचिकायां काकोलिकायामपि शाल्मलिद्रौ । ब्राह्म्यांच सूक्ष्मत्रिपुटासु चाथ । ना गर्दभाण्डे नरि पिप्पले च ॥ १० ॥ Koṣakalpataru 6.18.10
  • कोषकल्पतरु नन्दिन्यादःपतौ पाशधरे च पाशी नन्दी तु शंभोः प्रतिहारभेदे । ना गर्दभाण्डे [च] वटद्रुमे च ननान्दरि स्त्री च वसिष्ठधेन्वा[18a]म् ॥ ७८ ॥ Koṣakalpataru 6.21.78
  • कोषकल्पतरु कपीतनप्रह्लादपुत्रेऽप्यथ वैरशुद्धौ निर्यातनं न्याससमर्पणे च । शिरीष आम्रातकगर्दभाण्ड- बोधिद्रुमार्थश्च कपीतनः स्यात् ॥ ७ ॥ Koṣakalpataru 6.21.7
  • कोषकल्पतरु कन्दरालस्त्रियां भवेद्यातिबलाभिधाने धूमे पयोदे खतमाल उक्तः । स्याद्गर्दभाण्डे नरि कन्दरालः प्लक्षे महाकालमुशन्ति शंभौ ॥ ७५ ॥ Koṣakalpataru 6.28.75
  • नानार्थार्णवसंक्षेप प्लक्षपर्पः शङ्खेऽम्बुधौ वस्त्रे प्लक्षस्तु तरुषु त्रिषु । अश्वत्थे पर्कटीसंज्ञे गर्दभाण्डेऽप्यथो पविः ॥ ७४ ॥ Nānārthārṇavasaṃkṣepa 2.2.74
  • नानार्थार्णवसंक्षेप सुपार्श्वबीजपूर इति त्रिस्तु बहुव्रीहावथो पुमान् । सुपार्श्वो गर्दभाण्डाख्यपादपे सम्प्रकीर्तितः ॥ १९७८ ॥ Nānārthārṇavasaṃkṣepa 4.1978
  • नानार्थार्णवसंक्षेप कपीतनगर्दभाण्डाह्वयप्लक्षेऽप्याम्रातकशिरीषयोः । फलप्रसूनयोस्तेषां विद्यादेतन्नपुंसकम् ॥ १४६ ॥ Nānārthārṇavasaṃkṣepa 6.146
  • परमानन्दीयनाममाला नन्दिन्वृक्षमूले मृगे नेत्रे नन्दिर्द्युते गणान्तरे । हर्षे नन्दी वटे गर्दभाण्डे शंकरवेत्रिणि ॥ २६५ ॥ Paramānandīyanāmamālā 5.18.265
  • शिवकोष जटीजटी प्लक्षे गर्दभाण्डेऽथो मूले नलदे जटा । झिण्टी सैरेयके बाणाबदरीमोदकीषु च ॥ ११९ ॥ Śivakoṣa 8.1.119
  • शिवकोष कपीतनकपीतनो गर्दभाण्डेऽऽम्राताश्वत्थशुकप्रिये । कुचन्दनं च पतङ्गे रक्ते निर्गन्धचन्दने ॥ २७२ ॥ Śivakoṣa 16.2.272
  • शिवकोष कन्दरालएकाष्टीला स्त्रियां पुंसि पापचेल्याम्बुके क्रमात् । कन्दरालः पुमान् गर्दभाण्डे प्लक्षतरावपि ॥ ४८० ॥ Śivakoṣa 23.3.480
  • शिवकोष प्लक्षप्लक्षस्तु पर्कटीगर्दभाण्डयोः कुञ्जराशने । विषं जलेऽस्त्रियां क्ष्वेडे स्त्री मान्द्यां च वृषः श्रियाम् ॥ ५१८ ॥ Śivakoṣa 26.1.518
  • शब्दरत्नावली कपीतनआत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥ उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि ॥ कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥ कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥ कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥ कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ Śabdaratnāvalī 7.20.105
  • शब्दरत्नावली प्लक्षप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
  • त्रिकाण्डशेष कपीतनस्यात्कात्यायन्यर्धवृद्धा गौर्योर्वररुचौ नरि । शिरीषाम्रातकाश्वत्थगर्दभाण्डे कपीतनः ॥ २३२ ॥ Trikāṇḍaśeṣa 3.3.232