कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

षान्ताः · षद्विः

इति शान्ताः ।

अक्षं सौवर्चले तुत्थे ना रुद्राक्षे विभीतके ।ऋक्षस्तु भल्लके दीर्घवृन्ते च कृतवेधने ॥ ५१६ ॥
26.1.516 · p. 47
अनुष्टुप्
काक्षी तुवरिकागृष्ट्योः घोषः कोशातकीभिदि ।घोषा मिस्यां च कर्कोट्यां तुषो धान्यत्वगक्षयोः ॥ ५१७ ॥
26.1.517 · p. 47
अनुष्टुप्
प्लक्षस्तु पर्कटीगर्दभाण्डयोः कुञ्जराशने ।विषं जलेऽस्त्रियां क्ष्वेडे स्त्री मान्द्यां च वृषः श्रियाम् ॥ ५१८ ॥
26.1.518 · p. 47
अनुष्टुप्
अश्वासिंह्योर्वृषा शृङ्गीलतागुप्ताजयासु च ।
26.1.4 · p. 47