All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
क्षान्ताः · क्षश्लोकः
॥ क्षश्लोकः ॥
पक्षः साध्ये विरोधे च चुल्यां केशात्परस्तु यः ।बलकालपतत्रेषु सहायपरिपार्श्वयोः ॥
33.3.1 · p. 232
अनुष्टुप्
कक्षः स्मृतो भुजामूले कक्षो मूले च वीरुधः ।कक्षा स्पर्धापदे काञ्च्यां रथगेहप्रभेदयोः ।गजरज्जौ परीधाने पश्चादञ्चलपल्लवे ॥
33.3.2 · p. 233
अनुष्टुप्
प्लक्षः पिप्पलपर्कट्योर्गर्दभाण्डे तरावपि ।प्लक्षो वीतियके द्वीपे द्वारपार्श्वे गृहस्य च ॥
33.3.3 · p. 233
अनुष्टुप्
दक्षः स्याच्चतुरे वह्नौ ताम्रचूडे प्रजापतौ ।दक्षः स्यात्पुंगवे स्थाणोर्दक्षो वामतरेऽपि च ॥
33.3.4 · p. 233
अनुष्टुप्