कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विघ्न

vighnaपुं · masc.

In 14 kośas: 15 synonym verses, 2 as a nānārtha head word, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1509 · p. 57
विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः ।वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.19
विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.401 · p. 46
विघ्नोऽन्तरायः प्रत्यूहो व्यवायश्च प्रकीर्तितः ।साकल्यवचनं प्राज्ञैः पारायणमुदाहृतम् ॥ ४०१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.10 · p. 2
विनायकः पृश्निशृङ्गो गस्त्रिधातुश्च तुन्दिलः ।द्वैमातुरः स्याद्धेरम्बो विघ्नो लम्बोदरार्थकः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.62 · p. 241
विघ्नोऽन्तरायः प्रत्यूह उपघ्नस्त्वन्तिकाश्रये ।स्यातां निवेशनिर्वेशावुपभोगः परिक्रिया ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.105 · p. 246
अपराधे त्वपादाङोऽनुत्थानेऽनुगमे त्वनोः ।प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डकौ ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.6 · p. 30
[178a]अभिचारोऽथान्तरायो व्यवायो विघ्न इत्यपि ।प्रत्यूहः प्रतिबन्धस्तु प्रतिष्टम्भोऽप्यथाग्रहः ॥निर्बन्धोऽभिनिवेशः स्यात्पर्यवस्था विरोधनम् ।निग्रहस्तु निरोधः स्यादभियोगस्त्वभिग्रहः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
genderपुंmasc.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.382 · p. 99
विघ्नो व्यवायसंज्ञोऽसौ प्रत्यूहश्चान्तरायवत् ।प्रस्तावोऽवसरो वेला वारो प्रक्रमनाम च ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.76 · p. 42
वैरं विरोधो विद्वेषः शृङ्खलो निगडोऽन्दुकः ।विघ्नोऽन्तरायः प्रत्यूहो रोगातङ्कगदामयाः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2747 · p. 447
अन्तरायश्च प्रत्यूहो व्यवायो विघ्न इत्यपि ॥ २७४७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.506 · p. 66
अक्षोटकन्दरालौ द्वौ सुषेणः करमर्दकः ।कृष्णपाकफलौ विघ्नः पाककृष्णफलोऽपि सः ॥ ५०६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1720 · p. 207
प्रतिबन्धः प्रतिष्टम्भः प्रस्तावावसरौ समौ ।विघ्नोऽन्तरायः प्रत्यूहः प्रणयस्त्वभियाचने ॥ १७२० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.4 · p. 192
अनायासार्थकं फाण्टं दौर्मत्यं तु कररैकम् ।विघ्नोऽन्तरायः प्रत्यूहो रोषे त्वादीनवाश्रवौ ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.17 · p. 77
अनुज्ञास्पृहयोर्गत्यामुपात्स्मृत्यामुप[210b]द्रवे ।उत्पाते रुजि च प्रादो भेदे विघ्ने प्रधानके ॥ १७ ॥
अनुष्टुप्metre not read in every line
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.500 · p. 85
प्रतेर्विघ्ने समो जन्म-संहत्योः संग्रहेऽपि सः ।अपाद्व्यावृत्तावयं स्यादूहतिस्तूपसर्गतः ॥ ५०० ॥
अनुष्टुप्

विघ्न as a meaning in nānārtha verses