कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इङ्ग

iṅgaवि · adj.

In 9 kośas: 12 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1455 · p. 55
स्थावरं तु जङ्गमान्यज्जङ्गमं तु त्रसं चरम् ।चराचरं जगदिङ्गं चरिष्णुश्चाथ चञ्चलम् ॥ १४५४ ॥तरलं कम्पनं कम्प्रं परिप्लवचलाचले ।चटुलं चपलं लोलं चलं पारिप्लवास्थिरे ॥ १४५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable); pāda 3, syllable 6 ग (wrong syllable)
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.181 · p. 57
संस्तवः स्यात्परिचय आकारस्त्विङ्ग इङ्गितम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.126
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.26
निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.53 · p. 240
बन्धनं प्रसितिश्चारः स्पृष्टिः स्पशोपतप्तता ।विकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ॥ ५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्प (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.14 · p. 23
चराचरं च[रि]ष्णु स्यादिङ्गं जगदपि स्मृतम् ।चपलं[173b] तरलं लोलं चञ्चलं [च] चलाचलम् ॥ १४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.23 · p. 32
सूतिः प्रसूतिः प्रसवः प्राघारश्च्योत इत्यपि ।गुरणं तूद्यमो न स्त्री इङ्गस्त्वाकार इङ्गितम् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.342 · p. 94
स्थावरं त्वगति प्रोक्तं जङ्गमे तु चराचरम् ।चरं त्रसं जगच्चैवं चरिष्णाविङ्गमित्यपि ॥ ३४२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2644 · p. 426
इङ्गं चराचरं ज्ञेयं चरं चरिष्णु इत्यपि ।त्रसं जगत् जङ्गमञ्च सप्तनामानि सन्ति वै ॥ २६४४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.30 · p. 165
चराचर एसमिङ्गं चरिष्णुश्चरजङ्गमौ ।चलनः कम्पनः कम्प्रः त्रयं चलनशीलके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.31 · p. 172
अथाभिप्रायानुरूपक्रियाविष्करणेऽपि च ।भृकुट्याद्यङ्गविकृतावाकार इङ्गइङ्गितम् ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.22 · p. 193
विकारो विप्रकारः स्यादाकारस्त्विंग इंगितम् ।उपक्रियोपकारः स्यादपकारोऽन्यतः कृतिः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.93 · p. 164
विष्कम्भकादौ वपुषः स्थिरत्वेरोगस्तु कुष्ठौषध आमये च ।वेगो महाकालफले प्रवाहेप्लवे च पूगः क्रमुके च वृन्दे ।चङ्गस्तु दक्षे रुचिरेऽन्यलिङ्गो-ऽथेङ्गोऽद्भुतज्ञानस[263a]मिङ्गितेषु ।स्याज्जङ्गमे चाथ कृपाणभेद-जङ्घाखनित्रेष्वपि टङ्गमस्त्री ॥ ९३ ॥
उपजातिःtwo metres in one verse
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.4 · p. 191
क्लीवैकत्वे तु मुख्य स्यादन्तिकेऽङ्गवति त्रिषु ।इङ्ग आङ्गश्च विज्ञाने इङ्गिते जङ्गमेऽपि च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.56 · p. 111
जङ्गमेङ्गितयोरिङ्गो नाड्य ईहामृगो वृके ।फलं पूगस्य चोद्वेगमुत्सर्गो न्यायदानयोः ॥ ५६ ॥
अनुष्टुप्

इङ्ग as a meaning in nānārtha verses