कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रमीत

pramītaवि · adj.

In 11 kośas: 14 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.374 · p. 19
प्रमीत उपसंपन्नः परेतप्रेतसंस्थिताः ॥ ३७३ ॥नामालेख्ययशः शेषो व्यापन्नोऽपगतो मृतः ।परासुस्तदहे दानं तदर्थमौर्ध्वदेहिकम् ॥ ३७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.26
वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते ॥ २६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.117
परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ।मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.629 · p. 71
परासुरुपसम्पन्नः प्रमीतः संस्थितो मृतः ।प्रेतः परेतश्च तथा कुणपः शवमुच्यते ॥ ६२९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.67 · p. 76
प्रमीत उपसंपन्न प्रोक्षितौ वाच्यलिङ्गकाः ।स्युरथापि च सांनाय्यं हविष्यं होत्रकं हविः ॥ ६७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.380 · p. 131
परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ।अपि प्रमीतस्त्रिष्वेते चित्यचैत्ये तु न द्वयोः ॥ ३८० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 237
उपलम्भ्यः प्रशंस्योऽसावथालम्भ्यो वधोचितः ।प्रमीत उपसंपन्नः प्रोक्षितश्च विशेष्यवत् ॥ ५६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.74 · p. 270
मृतः प्रमीतश्च परासु-संस्थितौप्रेतः परेतो व्यसु…स्त्री ।आलेख्यशेषोऽपि यशोवशेष-स्तथोपसंपन्नक-नामशेषौ ॥ ७४ ॥
उपजातिःmetre not read in every line
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.222 · p. 53
परंपराकं शसनं प्रोक्षणं पशुहिंसने ।हिंसिते तु प्रमीतः स्यादुपसंपन्न इत्यपि ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.402 · p. 76
मृते परासुः पञ्चत्वान्परेतः प्रेत इत्यपि ।मृतः प्रमीतः प्रकलः संस्थितो निष्कलस्तथा ॥ ४०२ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.240 · p. 17
मृतः परासुर्निर्ज्जिवः प्रमीतस्त्यक्तजीवनः ।आसुः प्राणो वसुर्जीव आयुर्जीवितजीवने ॥ २४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्नि (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.52 · p. 114
हते वाच्याः प्रमीतोपसम्पन्नप्रोक्षिताः पशौ ।हविर्हविष्यं सान्नाय्यं होत्रञ्च हव्यवस्तुनि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्च (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1056 · p. 131
प्रेतः परेतविगतासुमृतप्रमीत-प्राप्तान्तसंस्थितपरासुविलीननष्टाः ।एते दश त्रिषु कटः कुणपः शवोऽस्त्रीचित्या चिता चितिरथ प्रलयोऽत्ययोऽन्तः ॥ १०५६ ॥
वसन्ततिलका
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.220 · p. 122
परासुरुपसंपन्नः प्रमीतः संस्थितो मृतः ।जीवो जीवनं कीनादूर्ध्वं त्रिषु जीवस्तु जीवितम् ॥ २२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.31 · p. 43
प्रहृष्टस्तु सरोमाञ्चे प्र(क?ह)र्षवति विस्मिते ।तथा प्रतिहते चाथ प्रमीतः प्रोक्षिते मृते ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्