धूम्याट
dhūmyāṭaपुं · masc.In 14 kośas: 10 synonym verses, 13 as a meaning of another word.
भृङ्गः कलिङ्गो धूम्याटः कङ्कस्तु कमनच्छदः ॥ १३३३ ॥लोहपृष्ठो दीर्घपादः कर्कटः स्कन्धमल्लकः ।
अनुष्टुप्
genderपुंmasc.
कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः ।
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटः सारङ्गश्चातको मतः ।व्याघ्राटस्तु भरद्वाजः शुकः कीर उदाहृतः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटो राजहंसस्तु बुद्धिमान् ।किकिर्दिविः स्वर्णचूडः चषो राजविहङ्गमः ॥ ३०० ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटोऽप्यथ स्याद्दारुणोऽस्त्रियाम् ।काष्ठकूटः कर्वुराङ्गो दार्वाघाटोऽथ खञ्जनः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
मीनाम्रीणः सूत्रकण्ठः खञ्जलेखो जनेक्षणः ।तडङ्कश्च कलिङ्गस्तु धूमी धूम्याट आटकः ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
धूम्याटस्तु तथा भृङ्गः कलिङ्गोऽपि निगद्यते ।कुलिङ्ककः कलविङ्कश्चटकस्त्वस्य वल्लभा ॥ २३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
कलिङ्गश्चाथ धूम्याटः भृङ्गो नामानि त्रीणि वै ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
genderपुंmasc.
कलिङ्गो धनसूर्भृङ्गो धूम्याटः फेचु आह्वये ।दार्वाघाटः काष्ठकुट्टो दार्वीघातः शतच्छदः ॥
अनुष्टुप्
genderपुंmasc.
भृङ्गः कलिङ्गो धूम्याटः समौ सारङ्गचातकौ ।करेटुः कर्करेटुः स्यात् कृकणक्रकरौ समौ ॥ ७९४ ॥
अनुष्टुप्
genderपुंmasc.
धूम्याट as a meaning in nānārtha verses
- धरणिकोश कलिङ्गकलिङ्गौ देशधूम्याटौ कलिङ्गं कौटजं फलम् । अपाङ्गो नेत्रयोरन्ते अपाङ्गस्तिलकेऽपि च ॥ Dharaṇikośa 3.2.3
- कोषकल्पतरु भृङ्गगर्गो मुनौ किञ्चुलके वृषेऽपि भृङ्गस्तु धूम्याटविटालिषु स्यात् । कलासु धूर्तस्य विशेषणे च स्यान्मार्कवेऽन्त्ये तु गुडत्वचायाम् ॥ ९ ॥ Koṣakalpataru 6.3.9
- कोषकल्पतरु कलिङ्गप्रकीर्यधूम्याटकयोः कलिङ्गः पुंभूम्नि देशे वनितार्थकः स्त्री । क्लीबे तु शक्रद्रुफलेऽथ पुंसि भवेदपाङ्गस्तिलके दृगन्ते ॥ २१ ॥ Koṣakalpataru 6.3.21
- नानार्थार्णवसंक्षेप भृङ्गकश्चित् तु धरणौ ब्रूते त्रि तु भ्रमणशीलके । द्वयोस्तु भृङ्गो धूम्याटे भ्रमरे च पुमान् पुनः ॥ ९१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.916
- नानार्थार्णवसंक्षेप कलिङ्गनापत्येषु बहुष्वस्य भूम्नि चैषां च नीवृति । द्वे तु धूम्याटसंज्ञे स्यात् पक्षिभेदेऽथ नप्स्त्रियोः ॥ ३३७ ॥ Nānārthārṇavasaṃkṣepa 4.337
- नानार्थार्णवसंक्षेप बुद्धिमत्धूम्याटाख्यस्य शकुने दे यस्याह्वयान्तरम् । राजभृङ्ग इति त्रिस्तु बुद्धियुक्तेऽथ नप्यदः ॥ १२६० ॥ Nānārthārṇavasaṃkṣepa 4.1260
- नानार्थार्णवसंक्षेप भृङ्गराजस्थावरे मार्कराख्ये च द्वे तु धूम्याटभृङ्गयोः । द्वयोस्तु भृज्जकण्ठः स्यान्मर्त्यजात्यन्तरे द्विजात् ॥ ४४३ ॥ Nānārthārṇavasaṃkṣepa 6.443
- शब्दरत्नावली भृङ्गभृङ्गः षिड्गे च धूम्याटे भृङ्गराजे मधुव्रते । भृङ्गारे भृङ्गरोले च भृङ्गं क्लीबे गुडत्वचि ॥ Śabdaratnāvalī 7.3.15
- शब्दरत्नावली कलिङ्गउत्सर्गस्त्यागसामान्यन्यायदानेषु वर्तते । कलिङ्गोऽपि च धूम्याटे स्यात् पूतिकरजेऽपि च ॥ Śabdaratnāvalī 7.3.32
- शब्दरत्नावली कलिकारकर्मकरी भवेद्दास्यां बिम्बिकाभूर्वयोरपि । कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥ Śabdaratnāvalī 7.27.120
- त्रिकाण्डशेष कलिङ्गकथाप्रसङ्गो वातूले विषवैद्येऽपि वाच्यवत् । देशे कलिङ्गो धूम्याटे कलिङ्गं कौटजे फले ॥ ५८ ॥ Trikāṇḍaśeṣa 3.3.58
- त्रिकाण्डशेष कलिकारबालके कार्त्तिकेये च कुमारो भर्तृदारके । कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥ ३३८ ॥ Trikāṇḍaśeṣa 3.3.338
- वैजयन्ती भृंगराजधूम्याटेऽलौ भृंगराजो महाराजौ नृपार्थपौ । महालयो महागेहे विहारे परमात्मनि ॥ ३६ ॥ Vaijayantī 8.1.36