वाञ्छा
vāñchāस्त्री · fem.In 15 kośas: 10 synonym verses, 26 as a meaning of another word.
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
अनुष्टुप्
genderस्त्रीfem.
इच्छा वाञ्छा स्पृहा काङ्क्षा कामनेप्सा रुचिस्तथा ।आशंसा चेति तुल्यार्था निश्चितं नियतं स्मृतम् ॥ ७१० ॥
अनुष्टुप्
genderस्त्रीfem.
स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ।इच्छा काङ्क्षा स्पृहेहाश्च वाञ्छा कामो मनोरथः ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रेमास्त्रियां प्रियत्वं षण् हार्दं स्यादथ दोहदः ।पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
तर्षोऽभिलाषोऽपि मनोरथोऽस्त्रीकामो वशः स्त्री तु तृषा तृडाशा ।काङ्क्षा स्पृहेहापि च कान्तिरिच्छा-ऽऽशंसा च वाञ्छा कविरन्न(?)लिप्सा ॥ २०० ॥
इन्द्रवज्रा
genderस्त्रीfem.
लोभः स्पृहा वशो लिप्सा तृष्णा काङ्क्षेच्छया सह ।आशंसा गर्धवाञ्छे चाशेहा तृट् तु मनोरथः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा ।कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
लोभस्तृष्णा स्पृहा लिप्सा गर्द्धः काङ्क्षा वशस्तथा ।आशा वाञ्छा धनाया च रुचिः कामश्च कामना ॥ ६५० ॥
अनुष्टुप्
genderस्त्रीfem.
ईप्सा लिप्सा स्पृहा वाञ्छा काङ्क्षेहेच्छातृषः समाः ।तर्षो मनोरथः कामोऽभिलाषो लालसा द्वयोः ॥ ९७५ ॥
अनुष्टुप्
genderस्त्रीfem.
वाञ्छा as a meaning in nānārtha verses
- धरणिकोश शंसाप्रसूर्मातरि चाश्वायां त्रासो भीमणिदोषयोः । शंसा तु वचनं वाञ्छा हिंसा चौर्यादिकं वधः ॥ Dharaṇikośa 31.1.2
- कोषकल्पतरु ध्यास्मृतौ चिन्तयते चिन्तयत्यध्येति स्मरत्यपि । ध्यायतिर्वेः क्षयेऽभेस्तु वाञ्छायां दुःस्मृतावपात् ॥ १५ ॥ Koṣakalpataru 3.5.15
- कोषकल्पतरु रुचिमधौ( ? )शुद्धे परवत् स्त्री तु रुचिः स्यादभिष्वङ्गे । शोभामयूखवाञ्छा- स्ववकाशे तु द्वयोर्वीचिः । स्वल्पतरङ्गे च सुखे- ऽथाभिनये सीवनद्रव्ये । नारीन्द्रिये च सूची शचीन्द्रपत्नी शतावर्याम् । काञ्ची देशविशेषे गुञ्जायां मेखलायां च । षड्ग्रन्थासारिकयो- र्वचा स्त्रियां स्याच्छुके पुंसि ॥ ७ ॥ Koṣakalpataru 6.5.7
- कोषकल्पतरु मतिवातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ Koṣakalpataru 6.16.48
- कोषकल्पतरु संमतिविपत्तिरापत्तिरिहापदि द्वे । स्तो यातनायामथ संततिः स्त्री । वंशे सुतादौ च परंपरायां स्यात्संमतिः स्वीकृतिवाञ्छयोश्च ॥ ३३ ॥ Koṣakalpataru 6.16.33
- कोषकल्पतरु आस्थाआस्थावलम्बस्थितियत्नवाञ्छा- सूक्ता च संस्था स्थितिनाशतौल्ये । व्यक्तौ च यूथं तु गणे तिरश्चां बृंहेऽस्त्रियां स्त्री कुसुमप्रभेदे ॥ ९९ ॥ Koṣakalpataru 6.18.99
- कोषकल्पतरु शंसामृत्सा शुभायां मृदि वासिकायां हिंसा वधे चौर्यविधौ प्रदिष्टा । शंसा तु वाञ्छावचसोर्मिसिस्तु मांस्यां तु दीप्ये शतपुष्पिकायाम् ॥ ८४ ॥ Koṣakalpataru 6.31.84
- कोषकल्पतरु ईहाईहा द्वयोरुद्यमवाञ्छ[92b]योः स्या- त्स्कन्दे गुहो योषिति सिंहपुच्छ्याम् । दर्यां च वाहो मिथुने भुजायां ना मानबाह्वश्ववृषेषु दिष्टा ॥ ४३ ॥ Koṣakalpataru 6.32.43
- नानार्थार्णवसंक्षेप तृष्त्विड्ज्वालादीप्तिशोभासु तृट् तु वाञ्छापिपासयोः । द्वार्द्वारोपाययोरुक्ता द्योशब्दः स्वर्गनाकयोः ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 1.1.54
- नानार्थार्णवसंक्षेप रुच्समाम्नायसमाम्नातो निरूप्यात्र निवेश्यताम् । रुक् प्रभाकान्तिवाञ्छासु रुक् तु स्याद्व्याधितोदयोः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 1.1.59
- नानार्थार्णवसंक्षेप ईहाइहा तु वाञ्छोद्यमयोरीतिर्डिम्बप्रवासयोः । उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 2.1.15
- नानार्थार्णवसंक्षेप श्रद्धागर्भिण्या अपि वाञ्छायां श्वश्रूः श्वशुरयोषिति । पितृष्वसारं त्वस्यार्थं व्याचष्टे शाकटायनः ॥ १०६ ॥ Nānārthārṇavasaṃkṣepa 2.1.106
- नानार्थार्णवसंक्षेप छन्दस्वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः । ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥ ५२ ॥ Nānārthārṇavasaṃkṣepa 2.2.52
- नानार्थार्णवसंक्षेप कामचम्पकप्रसवे तु क्ली तथा दमनके त्रि तु । प्रिये मनोज्ञे कामस्तु कन्दर्पे काम्यवाञ्छयोः ॥ १८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.188
- नानार्थार्णवसंक्षेप सम्मतिसम्मतिस्त्वपि वाञ्छायामनुज्ञापूजयोरपि । समितिः परिषत्स्थाने युद्धे संसदि सङ्गमे ॥ ९९ ॥ Nānārthārṇavasaṃkṣepa 3.1.99
- परमानन्दीयनाममाला रुच्रक्षणादित्ययो रीस्तु भ्रमे रूग्रुचिवाञ्छयोः । घृणिरुग्व्यथयोश्चपि रे हूतावव्ययं स्मृतम् ॥ ३७ ॥ Paramānandīyanāmamālā 1.37
- परमानन्दीयनाममाला आशाआशा ककुभि वाञ्छायामागो मन्तौ स्मृतं तथा । Paramānandīyanāmamālā 5.1.55
- शब्दरत्नावली तर्षतर्षो वाञ्छातृषोः पुंसि त्विट् स्त्री वाक्द्युतिकात्तिषु । तुषो विभीतकतरौ धान्यादित्वचि पुंस्ययम् ॥ Śabdaratnāvalī 7.31.7
- शब्दरत्नावली तृषातृषा कामसुतावाञ्छापिपासास्वपि च स्त्रियाम् । पिपासितस्य वाञ्छायामपि तृट् सैव कीर्त्यते ॥ दक्षः पटौ ताम्रचूडे महेशे च प्रजापतौ । वृषभे वृक्षभेदे स्याद्दक्षा स्त्री चतुराभुवोः ॥ Śabdaratnāvalī 7.31.8
- शब्दरत्नावली शंसाव्यासो मुन्यन्तरे पुंसि विस्तारभावभेदयोः । शंसा वाक्ये तु वाञ्छायां प्रशंसायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.32.11
- शब्दरत्नाकर छन्दछदः पक्षे पलाशे च च्छन्दोऽभिप्रायवाञ्छयोः । कान्त्यनातपयोश्छाया प्रतिबिम्बार्कभार्ययोः ॥ १९२२ ॥ Śabdaratnākara 4.1.1922
- शब्दरत्नाकर आशंसाआसनं वारणस्कन्धे आस्पदं स्थानकृत्ययोः । स्तम्भमात्रेऽपि चालानमाशंसा स्तववाञ्छयोः ॥ २०४७ ॥ Śabdaratnākara 4.1.2047
- शब्दरत्नाकर रुच्लिप्साज्वालाकान्तिवाञ्छाभङ्गरोगेषु रुक् स्त्रियाम् । भारतीवचसोर्वाक् स्याद् विः पक्षिपरमात्मनोः ॥ २२४६ ॥ Śabdaratnākara 4.1.2246
- त्रिकाण्डशेष ईहाआरोहस्तु नितम्बे स्याद्दीर्घत्वे च समुच्छ्रये । शक्तौ स्नेहे चाग्रहः स्यादीहातूद्यमाञ्छयोः ॥ ४५७ ॥ Trikāṇḍaśeṣa 3.3.457
- वैजयन्ती सम्मतिसिद्धौ स्वभावे संसिद्धिर्वांछानुज्ञा च सम्मतिः । संवित्ती ज्ञानसंवादौ ह्रादिन्यौ वज्रविद्युतौ ॥ २९ ॥ Vaijayantī 7.2.29
- वैजयन्ती रुच्लक्ष्मीरिव लवंगे श्रीः पद्मायां कान्तिसंपदोः । रुग्ज्वालाकान्तिवांछासु तृट् तु लिप्सापिपासयोः ॥ १९ ॥ Vaijayantī 8.2.19