कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विद्

vidपुं · masc.

In 4 kośas: 5 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

गणितनाममाला Gaṇitanāmamālā · हरदत्त बुधनामानि Gaṇitanāmamālā 9.67 · p. 4
सोमजो वित् शशीजश्चन्द्रजो हिमरश्मिजः ।शशकश्चंद्रमासूनुः कोविदो गदितो बुधैः ॥ ६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.1 · p. 52
बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्-ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा ।प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित्प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.11 · p. 54
शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः ।अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः ।धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि-प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः ।ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्-संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥
स्रग्धराmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.47 · p. 258
विदू नरौ मर्मविदू ततो*[ध]स्तात्प्रकीर्तितौ ।स्कन्धपृष्ठं केसरं स्यात्केशान्तः श्रुतिपृष्ठतः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.148 · p. 21
विशेष्यनिघ्ना व्युत्पन्नाः केचिन्नेति जपन्ति तान् ।बुद्धौ प्रज्ञा धरा ज्ञप्तिर्धीः श्रद्धा विच्चिदित्यपि ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.5.18 · p. 9
परमात्मनि नाथ स्त्री विज्ज्ञाने ज्ञातरि त्रिषु ।ना रौहिणेये विट् तु स्त्रीशण्डयोर्गूढवाचि(नि?नी) ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्

विद् as a meaning in nānārtha verses

  • कोषकल्पतरु चेतनाईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी- भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् । वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू- भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः । स्त्रियां प्रसन्ना मदिरासु वाच्ये प्रसादयुक्तेऽथ फणिज्जमल्ल्योः । कम्पिल्लके च प्रमदासलिङ्गं श्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥ Koṣakalpataru 6.21.1