उपलब्धि
upalabdhiस्त्री · fem.In 15 kośas: 12 synonym verses, 7 as a nānārtha head word, 8 as a meaning of another word.
मतिर्मनीषा बुद्धिर्धीर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।प्रेक्षोपलब्धिश्चित्संवित्प्रतिपद्ज्ञप्तिचेतनाः ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रेक्षा प्रज्ञा प्रतिभा धीर्धिषणा शेमुषी मनीषा च ।बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धिः ॥ ३३४ ॥
आर्या
genderस्त्रीfem.
अनुभूरुपलब्धिश्च भूतिश्चित् ज्ञप्तिसम्भवा ।ज्ञानं च बोधनं जानं मेधा धीर्धारणा क्षमा ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्-ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा ।प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित्प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
उपलम्भस्त्वनुभवोऽनुभूतिरुपलब्धिवत् ।आदीनवास्रवौ क्लेशे[180b] मेलके सङ्ग-संगमौ ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
प्रेक्षोपलब्धिः पण्डा संव(वे?)दनं प्रतिदोऽपि च ।सधारणा धीर्मेधा स्यात्तर्केऽध्याहार इष्यते ॥ १४९ ॥
अनुष्टुप्
genderस्त्रीfem.
चित्संविज्ज्ञानसंवित्तिर्भगबोधोपलब्धयः ।तत्त्वं रहस्यं सारश्च परमार्थश्च निश्चयः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्ञप्तिश्चित् चेतना प्रज्ञा प्रेक्षा च प्रतिभा तथा ।उपलब्धिश्च संवित्तिः दृष्टिश्च शेमुषी तथा ॥ ४५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
बुद्धि प्रज्ञा मनीषा धीः शेमुषी धिषणा मतिः ।चित् सम्बित् चेतना प्रेक्षा संज्ञोपलब्धिरात्मजा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानिप्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा ।दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी-र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
ज्ञप्तिः पण्डोपलब्धिस्तु संवित्तिरनुभूश्चितिः ।अवगत्यनुभूती चिज्ज्ञप्तिर्ज्ञानं च बोधनम् ॥ १६४ ॥
अनुष्टुप्
genderस्त्रीfem.
उपलब्धि as a meaning in nānārtha verses
- धरणिकोश दर्शनकर्तनं छेदनं प्रोक्तं स्त्रीणां च सूत्रकर्शने । दर्शनं लोचने स्वप्ने बुद्धिशास्त्रोपलब्धिषु । रञ्जनं रागजननं रञ्जनं रक्तचन्दनम् ॥ Dharaṇikośa 19.2.53
- कोषकल्पतरु दर्शनस्याद्दर्शनं लोचनबुद्धिधर्मे स्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे । कश्मीरजे स्यात्पिशुनं त्रये तु क्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥ Koṣakalpataru 6.21.25
- नानार्थार्णवसंक्षेप ग्रहणअपवादे कुलीनत्वे ग्रहणं त्विन्दुसूर्ययोः । उपरागे चोपलब्धौ वन्द्यादानादरेषु च ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 3.3.29
- नानार्थार्णवसंक्षेप विभावनाविभावना साधनायामुपलब्धौ च पूर्ववत् । विभाजनस्तु पुल्लिँङ्गो देवमारिषसंज्ञके ॥ ५७१ ॥ Nānārthārṇavasaṃkṣepa 6.571
- शब्दरत्नावली ग्रहणप्रेरणे क्लीबलिङ्गं स्यात्तथाक्षेपोपदेशयोः । ग्रहणं स्वीकृतौ वन्द्यामुपलब्ध्युपरागयोः ॥ Śabdaratnāvalī 7.15.32
- शब्दरत्नाकर दर्शनतोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः । तूलिका कूर्चिकासूच्योर्दिग्वासा श्रमणे हरे शास्त्रोपलब्धिधीदृष्टिसमयेषु तु दर्शनम् ॥ २१०१ ॥ Śabdaratnākara 4.1.2101
- त्रिकाण्डशेष दर्शनदर्शनं वर्णमुकुरचक्षुःशास्त्रोपलब्धिषु । स्त्री दीर्घकोष्यां दुर्नामाऽर्शसि द्युम्नं बले धने ॥ २४३ ॥ Trikāṇḍaśeṣa 3.3.243
- वैजयन्ती दर्शनतेमनं व्यञ्जने क्लेदे तोत्रे तोदे च तोदनम् । दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु ॥ १७ ॥ Vaijayantī 7.3.17