All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
एकाक्षरकाण्डः · नानालिङ्गाध्यायः
इत्येकाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथैकाक्षरकाण्डे नानालिङ्गाध्यायः ।
इडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे ।अर्कानिलविरिञ्चात्मशब्दबुद्धिमनः स्वपिः ॥ १ ॥
1.5.1 · p. 7
अनुष्टुप्
अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत ।कं नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यत्ने गुदे स्त्रियाम् ॥ २ ॥
1.5.2 · p. 7
अनुष्टुप्
गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः ।स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि ॥ ३ ॥
1.5.3 · p. 7
अनुष्टुप्
नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु ।अश्वानां प्रग्रहेऽप्येष यत्साधारणनामसु ॥ ४ ॥
1.5.4 · p. 8
अनुष्टुप्
प्रग्रहस्य मरीचेश्च समाम्नायेऽमुमामनत् ।धनुर्गुणे सुषुम्णाख्यरश्मिभेदे च भास्वतः ॥ ५ ॥
1.5.5 · p. 8
अनुष्टुप्
द्वयोस्त्वश्वे तथा ह्याह स्कन्दस्वाम्यृक्षु भूरिशः ।माधवाचार्यसूरिश्च को अद्येत्यृचि भाषते ॥ ६ ॥
1.5.6 · p. 8
अनुष्टुप्
समाम्नाये समाम्नातः स्तोत्रनामसु स त्रिषु ।विकारयोर्लक्षणया दुग्धाभिषवचर्मणोः ॥ ७ ॥
1.5.7 · p. 8
अनुष्टुप्
चर्मणो गोविकारस्य विकारे श्लेष्मसंज्ञके ।नृस्त्रियोरविशेषेण कश्चिदेनं समामनत् ॥ ८ ॥
1.5.8 · p. 8
अनुष्टुप्
अथ चित् स्यात् स्त्रियां ज्ञाने ज्ञातरि त्वेष भेद्यवत् ।अथच्छिच्छेदने स्त्री स्याच्छेत्तरि त्वेष भेद्यवत् ॥ ९ ॥
1.5.9 · p. 8
अनुष्टुप्
आत्मचान्द्रमसायन्योर्ना ज्ञो ज्ञातरि तु त्रिषु ।जूर्जवे स्त्री राक्षसे द्वे त्वशब्दोऽर्थे पुमांस्त्रि तु ॥ १० ॥
1.5.10 · p. 8
अनुष्टुप्
एकार्थे युष्मदर्थे च तेशब्दः क्रीडने स्त्रियाम् ।क्रीडके त्रिषु सूर्ये तु दिवित्येष ध्वनिः पुमान् ॥ ११ ॥
1.5.11 · p. 8
अनुष्टुप्
स्त्री खे स्वर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु ।नेत्रे च त्रिषु तु द्रष्टृज्ञात्रोर्नृ द्वे हरे हये ॥ १२ ॥
1.5.12 · p. 8
अनुष्टुप्
यदा त्वस्य स्त्रियां वृत्तिस्तदा नारीति दृश्यताम् ।दिग्देशकालविषये पूर्वेऽर्वाचि च भेद्यवत् ॥ १३ ॥
1.5.13 · p. 8
अनुष्टुप्
प्राग्भवे प्राङ् मुखे चैव प्राची तु स्त्री हरेर्दिशि ।प्रथमापञ्चमीसप्तम्यर्थेष्वव्यय एव वा ॥ १४ ॥
1.5.14 · p. 8
अनुष्टुप्
सर्वेषु पूर्वोक्तार्थेष्वित्येवं प्राक्छब्द ईरितः ।मेषादिराशौ नक्षत्रे वैयाकरणसंज्ञिनि ॥ १५ ॥
1.5.15 · p. 9
अनुष्टुप्
क्लीबं भं भा तु भासि स्त्री भोजराजेन संस्कृता ।राट् स्त्री छन्दोविशेषे स्याद् द्वाविंशत्यक्षरेऽथ ना ॥ १६ ॥
1.5.16 · p. 9
अनुष्टुप्
पार्थिवे क्रतुभेदे च रैशब्दो धनरुक्मयोः ।नृस्त्रियोर्नाम्बुदेऽथ द्वे विः खगे त्रिषु गन्तरि ॥ १७ ॥
1.5.17 · p. 9
अनुष्टुप्
परमात्मनि नाथ स्त्री विज्ज्ञाने ज्ञातरि त्रिषु ।ना रौहिणेये विट् तु स्त्रीशण्डयोर्गूढवाचि(नि?नी) ॥ १८ ॥
1.5.18 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अङ्गुल्यां स्त्री समाम्नाये समाम्नाताज(ने?ये)न च ।द्वयोर्मनुष्ये वैश्ये च स्वं त्वात्मात्मीययोस्त्रिषु ॥ १९ ॥
1.5.19 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
धने तु नप् पुमान् ज्ञातौ तकारान्तं तु सत् त्रिषु ।सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते बुधे ॥ २० ॥
1.5.20 · p. 9
अनुष्टुप्
शोभने च सती तु स्त्री तुवरीसंज्ञभेषजे ।लक्ष्मीपतिव्रताशैलतनयासु चतुर्ष्वथ ॥ २१ ॥
1.5.21 · p. 9
अनुष्टुप्
शब्देऽपि कश्चित् सच्छब्दस्तस्य लिङ्गं विचार्यताम् ।सज्जनस्त्वेनमाम्नासीन्नक्षत्रे तन्नपुंसकम् ॥ २२ ॥
1.5.22 · p. 9
अनुष्टुप्
परब्रह्मणि नीरे च वयं ब्रूमो नपुंसकम् ।सेशब्दः सेवने स्त्री स्यात् सेवके वाच्यलिङ्गकः ॥ २३ ॥
1.5.23 · p. 9
अनुष्टुप्