धी
dhīस्त्री · fem.In 20 kośas: 21 synonym verses, 4 as a nānārtha head word, 23 as a meaning of another word.
मतिर्मनीषा बुद्धिर्धीर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।प्रेक्षोपलब्धिश्चित्संवित्प्रतिपद्ज्ञप्तिचेतनाः ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
प्रेक्षा प्रज्ञा प्रतिभा धीर्धिषणा शेमुषी मनीषा च ।बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धिः ॥ ३३४ ॥
आर्या
genderस्त्रीfem.
बुद्धिर्मनीषा धिषणा चेतना शेमुषी मतिः ।विदा बुधा धीख्याती च ज्ञप्तिसंवित्तिरित्यपि ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
अनुभूरुपलब्धिश्च भूतिश्चित् ज्ञप्तिसम्भवा ।ज्ञानं च बोधनं जानं मेधा धीर्धारणा क्षमा ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
रसातलांबुवेश्मोक्तं पंचमं सुतमात्मजम् ।सन्तानं बुद्धिसंज्ञा च विद्या धीश्चैव नंदनम् ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
सर्वप्रतिकृतिकृतिरन्यदुर्वचलेखनम् ।पुस्तस्य वाचनं शीघ्रं नाटिकाख्यायिकासु धीः ॥ ५०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
genderस्त्रीfem.
काव्या संविज्ज्ञप्तिरात्मा पुंसि धीर्धारणावती ।मतिरप्राप्तविषया बुद्धिः संप्रतिदर्शिनी ॥ १४३ ॥
अनुष्टुप्
genderस्त्रीfem.
बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्-ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा ।प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित्प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
कृपाऽनुकम्पानुक्रोशोऽहन्तोक्तिः करुणा दया ।शेमुषी धिषणा प्रज्ञा मनीषा धीस्तथाऽशयः ॥ ११० ॥
अनुष्टुप्
genderस्त्रीfem.
बुद्धिः प्रज्ञा मतिर्मेधा मनीषा धिषणा च धीः ।चेतना प्रतिभा ज्ञप्तिशेमुषीदृष्टयस्तथा ॥ २०५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीलिङ्गे योनिमन्नाम वल्लीसेनातडिद्दिशाम् ।वम्रीतन्द्रानिशां ग्रीवादयाजिह्वाधियामपि ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
विशेष्यनिघ्ना व्युत्पन्नाः केचिन्नेति जपन्ति तान् ।बुद्धौ प्रज्ञा धरा ज्ञप्तिर्धीः श्रद्धा विच्चिदित्यपि ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
बुद्धिर्मेधा मतिः प्रज्ञा धिषणा धीश्च शेमुषी ।मनीषा प्रतिभा ज्ञप्तिः प्रेक्षा पण्डा च चेतना ॥ १३६ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ स्वास्थ्यं च सन्तोषो धृतिः स्यात् स्मरणं स्मृतिः ।अध्यानं धीर्मतिर्बुद्धिर्मनीषा धिषणा पुनः ॥ ४५३ ॥
अनुष्टुप्
genderस्त्रीfem.
बुद्धि प्रज्ञा मनीषा धीः शेमुषी धिषणा मतिः ।चित् सम्बित् चेतना प्रेक्षा संज्ञोपलब्धिरात्मजा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
विद्युत्तडिच्च धीर्बुद्धिर्वल्ली नीरुदियाः स्त्रियाम् ।शिष्टप्रयोगात्पुंस्त्वे च लज्जायां व्रीड इत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
धीर्धीदा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः ।तालव्यादिर्मूर्धन्यान्ता, लज्जायां स्यादपत्रपा ॥ १२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्मू (wrong syllable)
genderस्त्रीfem.
चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानिप्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा ।दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी-र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
महांस्तु लैंगिको ब्रह्मा लिंगज्येष्ठश्च चेतना ।मनीषा शेमुषी बुद्धिर्धीः पूः ख्यातिर्विदा बुधा ॥ १६३ ॥
अनुष्टुप्
genderस्त्रीfem.
धः स्याद्विरिञ्चौ वदने तु बन्धेवान्ते मतौ धीर्धुरपीह केतौ ।धूरश्वमातर्यपि चित्रके चधूर्ते तु लिङ्गं भजते परस्य ।
इन्द्रवज्राtwo metres in one verse
meaningsमति
धिषणा धीः समाख्याता धूश्च स्याद्भार-चिन्तयोः ।न-कारः सुगते बन्धे नुः स्तुतौ च प्रकीर्त्तितः ॥ २१ ॥
अनुष्टुप्
meaningsधिषणा
धी as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् प्रधानप्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥ Amarakośa 3.3.122
- धरणिकोश दृष्टिव्युष्टिः फले समृद्धौ च क्लिष्टिः स्यात्क्लेशसेवयोः । सृष्टिः स्वभावे निर्माणे दृष्टिर्धीदर्शनाक्षिषु ॥ Dharaṇikośa 10.1.1
- धरणिकोश धिषणाधिषणस्त्रिदशाचार्ये धिषणा धीरपि स्मृता । लवणाः कथिता भेदाः समुद्ररसरक्षसाम् ॥ Dharaṇikośa 14.2.18
- धरणिकोश मतिचितिः समूहे चित्यायां सृतिः स्यात्पद्धतौ गतौ । क्षितिर्भूक्षयवासेषु मतिर्धीच्छास्मृतिष्वपि ॥ Dharaṇikośa 15.1.2
- धरणिकोश विद्रवप्रसेवौ स्यूतवीणाङ्गे विद्रवौ धीपलायने । कितवौ मत्तधूस्तूरौ गालवो मुनिलोध्रयोः ॥ Dharaṇikośa 28.1.5
- कोषकल्पतरु धिषणयाम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथ स्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् । पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौ क्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि । रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यां नयनरुजि यमे स्याद्धर्षणो योगभेदे । हरणमपि विवाहस्वे भुजे स्याद्धृतौ च श्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥ Koṣakalpataru 6.15.26
- कोषकल्पतरु प्रतिपद्प्रतिपत्स्त्री धियि च तिथौ तमोनुदत्त्वग्निचन्द्रार्काः । सौदामिन्यां वज्रे शतह्रदा स्यात्स्त्रियामेव ॥ ४८ ॥ Koṣakalpataru 6.19.48
- कोषकल्पतरु शृधुस्पृक्काशठीसारिविकाङ्गनासु शृधुः पुमान्स्याद्धियि चापि पायौ । Koṣakalpataru 6.20.18
- कोषकल्पतरु प्रज्ञानस्यात्सावनो मासविशेषय[15b]ष्टृ- यज्ञक्रियान्तेषु च याजिनि स्यात् । विज्ञानमुक्तं किल बोधकृत्योः । प्रज्ञानमुक्तं धियि लाञ्छनेऽपि ॥ ४७ ॥ Koṣakalpataru 6.21.47
- कोषकल्पतरु प्रेक्षाअचिक्कणेऽथो भृतियाच्ञयोः स्या- द्भिक्षा तथा भिक्षितसेवयोश्च । प्रेक्षा वितर्के धियि संप्रदिष्टा प्लीक्षा( ? )तु रक्षा किल रक्षणेऽपि । कुक्षिर्द्वयोः स्याज्जठराह्वये च गौडादयस्तूदरमात्र आहुः ॥ ५५ ॥ Koṣakalpataru 6.30.55
- कोषकल्पतरु मनस्छन्दो यदृच्छाचरणे च पद्य- भेदेऽप्यदन्तस्तु पुमान्समार्थः । एनोऽपराधे कलुषे मन[89b]स्तु चित्ते धियां पुंसि भवेन्न रोदः ॥ १०० ॥ Koṣakalpataru 6.31.100
- नानार्थार्णवसंक्षेप ऌयातिखातं क्ली पुष्करिण्यां स्यात् खनने चाथ तत् त्रिषु । खननक्रियया प्राप्ते ख्यातिः कीर्तिधियोः स्त्रियाम् ॥ ३१८ ॥ Nānārthārṇavasaṃkṣepa 2.5.318
- परमानन्दीयनाममाला विदावर्तिर्दीपदशायां स्याद्विधिः कर्तव्यवेधसोः । वधूः पत्न्यां स्नुषायां च विदा ज्ञानधियोरपि ॥ ३५२ ॥ Paramānandīyanāmamālā 5.24.352
- शब्दरत्नावली काव्यातथा बृहतिकायाञ्च काकचिञ्च्यामपि स्त्रियाम् । काव्यः शुक्रे पुमान् ग्रन्थे क्लीबं स्त्री पूतनाधियोः ॥ Śabdaratnāvalī 7.26.8
- शब्दरत्नावली शाशः शस्त्र ईश्वरेऽपि स्यान्मङ्गले तु नपुंसकम् । शान्तौ च शयने शी स्याद्धियांशा शूर्निगद्यते ॥ Śabdaratnāvalī 7.30.1
- शब्दरत्नाकर दृष्टिद्वन्द्वं वसन्तग्रीष्मादिमिथुने कलहे युगे । दृष्टिर्दर्शनधीदृक्षु दाम प्रग्रहमाल्ययोः ॥ १९४१ ॥ Śabdaratnākara 4.1.1941
- शब्दरत्नाकर दर्शनतोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः । तूलिका कूर्चिकासूच्योर्दिग्वासा श्रमणे हरे शास्त्रोपलब्धिधीदृष्टिसमयेषु तु दर्शनम् ॥ २१०१ ॥ Śabdaratnākara 4.1.2101
- तन्त्राभिधान वमेधा धियो जलान्तस्थः खड्गीशो हंस-वारिदौ । वरुणश्च शिवो रौद्रो मृतेशो वा-र्णकः स्मृतः ॥ ४५ ॥ Tantrābhidhāna 6.45
- उत्पलिनी श्रीलक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु । उपकरणवेषरचनाविधासु च श्रीरिति प्रथिता ॥ ६३ ॥ Utpalinī 63
- वैजयन्ती दृष्टिदरदो भीतिहृद्गूढा दृष्टिर्धीदर्शनाक्षिषु । द्रोणी स्यादम्बुवाहिन्यां द्रवभाण्डे गिरिप्लवे ॥ १८ ॥ Vaijayantī 6.2.18
- वैजयन्ती विनयविकीर्णोऽर्थश्च विकिरौ विसर्गौ मुक्तिवर्चसी । विनयो धर्मविद्याधीशिक्षाचारप्रशान्तिषु ॥ ७० ॥ Vaijayantī 7.1.70
- वैजयन्ती धिषणाधिषणा स्त्री धियां गौर्यां स्त्रीचिह्ने ना तु गीष्पतौ । नागरं पुरजे चुक्रे शुण्ठीराजकशेरुणोः ॥ ५० ॥ Vaijayantī 7.5.50
- वैजयन्ती ककाश्चित्तात्मार्कधीधातृवाता मूर्ध्नि सुखेऽप्सु कम् ॥ ३६ ॥ Vaijayantī 8.5.36