प्रतिपद्
pratipadस्त्री · fem.In 16 kośas: 20 synonym verses, 8 as a nānārtha head word, 4 as a meaning of another word.
तिथिः पुनः कर्मवाटी प्रतिपत्पक्षतिः समे ॥ १४७ ॥
metre not recognised
genderस्त्रीfem.
मतिर्मनीषा बुद्धिर्धीर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः ।प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।प्रेक्षोपलब्धिश्चित्संवित्प्रतिपद्ज्ञप्तिचेतनाः ॥ १ ॥
अनुष्टुप्
genderस्त्रीfem.
एकादशी तिथिर्नन्दा षष्ठी च प्रतिपत्तथा ।द्वितीया सप्तमी भद्रा गदिता द्वादशी बुधैः ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
रव्याद्यास्ताः पञ्चदश स्युरथ प्रतिपत् स्त्रियाम् ।पक्षतिर्मासपक्षाद्याग्नेयी वा ब्राह्मणो परा ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
नवाहः पुंसि वृद्धिः स्त्री प्रतिपत्पक्षतिर्भवेत् ।वत्सरादिश्चैत्रशुक्ला साऽथ कार्त्तिकशुक्लगा ॥असौ बलिदिनं नावरात्रिकी त्विषशुक्लगा ।सुमङ्गलपदा ब्राह्मी द्वितीया युग्मनामिका ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्-ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा ।प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित्प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः ।छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च ।आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥
metre not recognised
भास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीइषिकास्त्रीविद्युत्स्त्रीतडित्स्त्रीचञ्चलास्त्रीशतह्रदास्त्रीक्षणप्रभास्त्रीसौदामिनीस्त्रीऐरावतीस्त्रीआशास्त्रीकाष्ठास्त्रीककुभ्स्त्रीविदिश्स्त्रीभूमिस्त्रीधरास्त्रीरसास्त्रीपृथ्वीस्त्रीक्षमास्त्रीक्ष्मास्त्रीवल्लीस्त्रीव्रततिस्त्रीप्रतानिनीस्त्रीसरित्स्त्रीनदीस्त्रीकुल्यास्त्रीस्रवन्तीस्त्रीनिम्नगास्त्रीतटिनीस्त्रीछायास्त्रीसुरास्त्रीनिशास्त्रीवालुकास्त्रीचमूस्त्रीकन्थास्त्रीइरास्त्रीआपद्स्त्रीसंपद्स्त्रीविपद्स्त्रीप्रतिपद्स्त्रीसमिध्स्त्रीविप्रुष्स्त्री
genderस्त्रीfem.
प्रवेणी तु कुथायां च वेण्यां चाथ प्रतोल्यसौ ।पुरस्य गोपुरे चापि रथ्यायां प्रतिपत् पुनः ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
पक्षतिः प्रतिपत्पर्वसन्धिमानमुदाहृतम् ।प्रतिपत्पञ्चदश्योश्चान्तरं स्यादथ पूर्णिमा ॥ १३६ ॥
अनुष्टुप्
genderस्त्रीfem.
तिथिस्तु कर्मवाटी स्यात् पक्षतिः प्रतिपत् तथा ।पञ्चदश्यौ यज्ञकालौ पक्षान्तौ चापि पर्वणी ॥ १४० ॥
अनुष्टुप्
genderस्त्रीfem.
भूतेष्टापञ्चदश्योर्यद् पर्वमूलं तदन्तरम् ।प्रतिपत् पर्वसन्धिः स पञ्चदश्योर्यदन्तरम् ॥ १४१ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतिपत् षोडशं नाम सा मेधा धारणक्षमा ।तत्त्वानुसारिणी पण्डा ज्ञानं च मोक्षदायकम् ॥ ४५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
प्रतिपत् पक्षती स्त्री द्वे तदाद्यास्तिथयो द्वयोः ।पुंनपुंसकयोर्वारदिवसांशकवासराः ॥
अनुष्टुप्
genderस्त्रीfem.
पण्डा स्यात् प्रतिपज्ज्ञप्तिर्ज्ञानं विज्ञानमित्यपि ।अथ मेधा निगदिता या बुद्धिर्धारणावती ॥
अनुष्टुप्
genderस्त्रीfem.
धीर्धीदा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः ।तालव्यादिर्मूर्धन्यान्ता, लज्जायां स्यादपत्रपा ॥ १२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्मू (wrong syllable)
genderस्त्रीfem.
निशीथः स्यादर्धरात्रो मध्यरात्रो महानिशा ।समौ यामप्रहरकौ प्रतिपत्पक्षती समे ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानिप्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा ।दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी-र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥
मन्दाक्रान्ता
genderस्त्रीfem.
काल्यं प्रभातं स्त्री वोषः सन्धा सन्ध्या पितृप्रसूः ।तिथिर्न षण् कर्मवाटी प्रतिपत्त्वेकपक्षतिः ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् ।उत्तालमुन्नतेऽपि श्रेष्ठेऽपि निगद्यते सुरभिः ॥ ८०० ॥
आर्या
meaningsप्रतिपत्ति
स्याद्बहिष्पवमानस्य प्रथमायामृचि स्मृता ।पक्षस्य प्रथमायां च तिथौ बाधेऽपि कीर्तिता ॥ ५५ ॥
अनुष्टुप्
doubtful
प्रतिपद् as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप नन्दानमनेऽप्यथ नन्दा स्त्री स्नुहिसंज्ञमहीरुहे । तिथिषु प्रतिपत्षष्ठ्योरेकादश्यां तिसृष्वपि ॥ ६६१ ॥ Nānārthārṇavasaṃkṣepa 2.5.661
- नानार्थार्णवसंक्षेप पक्षतिप्रततिर्वैजयन्त्यां तु वीरुधीत्याह शब्दवित् । पक्षतिः पक्षमूलेऽपि प्रतिपत्संज्ञके तिथौ ॥ ५२ ॥ Nānārthārṇavasaṃkṣepa 3.1.52
- शब्दरत्नाकर पक्षतिस्वभावजन्त्वमात्यादिच्छन्दोभूतेषु मातरि । पक्षतिः पक्षमूले स्याद् द्वयोः प्रतिपदोरपि ॥ २१३० ॥ Śabdaratnākara 4.1.2130
- वैजयन्ती पक्षतिछन्दःकारणगुह्येषु जन्त्वमात्यादिमातृषु । पक्षतिर्गरुतो मूले द्वयोः प्रतिपदोरपि ॥ १३ ॥ Vaijayantī 7.2.13