कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अभिरूप

abhirūpaपुं · masc.

In 11 kośas: 8 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.6 · p. 18
विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ३४१ ॥व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः ।निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ३४२ ॥कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
वसन्ततिलका
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.332 · p. 39
धीरो धीमान् लब्धवर्णो विपश्चिद्,वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।सूरिः प्राज्ञः पण्डितः सन्मनीषी,ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
शालिनी
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.91 · p. 99
कल्पादेशनवान्याया देशरूपं समञ्जसम् ।युक्तमौपयिकं न्याय्यमभिरूपं च साम्प्रतम् ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.11 · p. 54
शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः ।अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः ।धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि-प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः ।ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्-संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥
स्रग्धराmetre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 111 · p. 55
प्राज्ञमेधाविनौ विद्वानभिरूपो विचक्षणः ।पण्डितः सूरिराचार्यो वाग्मी नैयायिकः स्मृतः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.503 · p. 64
लब्धवर्णोऽभिरूपश्च धीमान् धीरः सुधीर्बुधः ।ज्ञः प्राज्ञश्च प्रबुद्धश्च व्यक्तो विचक्षणस्तथा ॥ ५०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.504 · p. 64
मतिमान् चाऽभिरूपः सन् विपश्चित् कविता तथा ।दोषज्ञः कोविदः सूरिः संख्यावान् च विशारदः ॥ ५०४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.268 · p. 37
अभिरूपः सुधीर्बोद्धा बुधो बिन्दुर्विचक्षणः ।विशारदश्च संख्यावान् आर्य उत्प्रेक्षकश्च सः ॥ २६८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.131
प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥
अनुष्टुप्
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पान्ताः Koṣakalpataru 6.22.17 · p. 273
बुधे मनोज्ञेऽप्यभिरूप उ[27a]क्तःस्यात्प्राप्तरूपश्च तथाथ विष्णौ ।शंभौ च गर्भे कृकलासके च* कोषवीणा( ? )बहुरूपमाहुः ॥ १७ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.3 · p. 23
अभिरूपो बुधे चारावभिपन्नं त्वभिद्रुते ।अभिग्रस्तेऽपराद्धे च तथैवोक्तं विपद्गते ॥ ३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पान्ताः Śabdaratnāvalī 7.21.20 · p. 249
अभिरूपो बुधे रम्ये कामेन्दुहरविष्णुषु ।अवन्वेपो दूषणे स्यादहङ्कारे च लेपने ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2191 · p. 265
अभिरूपः सुरूपः स्याद्विश्रुते च विचक्षणे ।अवदातः सिते शुद्धेऽप्ययुगास्त्रौ हरिस्मरौ ।अहिशत्रुः खगाधीशे नकुले नाकनायके ॥ २१९१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अभिधेयवल्लिङ्गाध्यायः Vaijayantī 8.4.15 · p. 276
कुत्सिते वाच्यवक्तव्यौ वदितव्यविहीनयोः ।प्राप्तरूपोऽभिरूपश्च पण्डिते रूपवत्यपि ॥ १५ ॥
अनुष्टुप्
meanings

अभिरूप as a meaning in nānārtha verses

  • कोषकल्पतरु कमनकामेऽप्यशोके कमनोऽन्यवत्तु कम्रेऽभिरूपे धमनस्तु वह्नौ । आध्मापके क्रूरतरेऽन्यलिङ्गः स्त्रियां हरिद्राद्रुतिवाचकश्च ॥ १९ ॥ Koṣakalpataru 6.21.19
  • शब्दरत्नावली कमनउद्घानं क्लीबलिङ्गन्तु चूल्ल्यां वाच्यवदुद्गते । ओदनोऽस्त्री तु भक्ते स्याद्वलायामोदनी स्त्रियाम् । कमनः कामुकेऽशोके कामदेवाभिरूपयोः ॥ Śabdaratnāvalī 7.20.39