सौख्य
saukhyaक्ली · neut.In 12 kośas: 9 synonym verses, 10 as a meaning of another word.
मनसः कर्म संकल्पः स्यादथो शर्म निर्वृतिः ।सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा ॥ १३७० ॥पीडा बाधार्तिराभीलं कृच्छ्रं कष्टं प्रसूतिजम् ।आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा ॥ १३७१ ॥
अनुष्टुप्
genderक्लीneut.
सौख्यं सुखं शर्मशातमयः शुभफलो विधिः ।संपल्लक्ष्मीश्च संपत्तिर्विपत्तिर्विपदापदौ ॥ १०४ ॥
अनुष्टुप्
genderक्लीneut.
दुःखं दुष्खमपि प्रोक्तं सुकृतं सूकृतं तथा ।भन्दं भद्रमपि प्रोक्तं सुखं सौख्यमुभे समे ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबाव्ययं तु कं जोषमुपजोषमथो सुखम् ।कमव्ययं च खं शर्म सौख्यं श्वःश्रेयसं पुनः ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
सौख्यं सातं तथा दुःखं पीडा स्यादर्तिवेदने ।कष्टं कृच्छ्रं व्यथा बाधा स्यादाभीलं तथाशुभम् ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
शान्तं सौख्यं सुखं शर्म शंसा वा शुभवेदनम् ।विधिश्च नियतिर्दिष्टं दैवं भाग्यं शुभं त्वयः ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
सुखं सातं तथा शातं शर्म शर्मं च निर्वृतिः ।सौख्यं चेति प्रसिद्धानि सप्त नामानि सन्ति वै ॥ २४९१ ॥
अनुष्टुप्
genderक्लीneut.
सौख्यं शर्मोपजोषं स्यादानन्दं जोषमित्यपि ।मुदादिजोषमित्यन्तं एकपर्याय इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
शर्म शातं सुखं सौख्यमयः शुभफलो विधिः ।विधौ दैवं दिष्टभाग्ये विपाको भवितव्यता ॥ १८९ ॥
अनुष्टुप्
genderक्लीneut.
सौख्य as a meaning in nānārtha verses
- कोषकल्पतरु निर्वृतिजात्यङ्गरूपेषु मताकृतिः स्त्री सौस्थ्ये तथा*स्तमने च सौख्ये । स्यान्निर्वृतिः साधुनयध्रुवाम्बा- र्थिका सुनीतिर्गदिताथ वृत्तौ ॥ ३८ ॥ Koṣakalpataru 6.16.38
- नानार्थार्णवसंक्षेप धृतिधृतिर्धारणसन्तोषधैर्यशौर्येषु सौख्यके । द्वासप्तत्यक्षरच्छन्दोविशेषे पिङ्गलोऽन्वशात् ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 2.1.54
- परमानन्दीयनाममाला कअं वेधसि तथा रुद्रेऽप्यंकारः कथितो बुधैः । कं जले मस्तके सौख्ये कः स्वर्गे स्मरसूर्ययोः ॥ ९ ॥ Paramānandīyanāmamālā 1.9
- शब्दरत्नावली निर्वृतिनिकृतिः स्त्री शठे शाठ्ये दैन्ये क्षेये च भर्त्सने । निर्वृतिः सुत्थितौ सौख्ये तथास्तङ्गमने स्त्रियाम् ॥ Śabdaratnāvalī 7.16.112
- शब्दरत्नाकर धृतिमरुर्धन्वा धनुर्धन्व धवः पत्यौ द्रुमान्तरे । धृतिः सौख्ये धारणे च धाता ब्रह्मणि पोषके ॥ १९४४ ॥ Śabdaratnākara 4.1.1944
- शब्दरत्नाकर भोगभोगो वेश्याभृतौ राज्ये सौख्येऽर्थे पालने रतौ । विहारे व्यवहारे च फणिनः फणदेहयोः ॥ १९६९ ॥ Śabdaratnākara 4.1.1969
- शब्दरत्नाकर निर्वृतिनालिका विवरे वेणुभाजने चुल्लिरन्ध्रके । निर्गन्धः श्रमणे निःस्वे निर्वृतिः सौख्यनाशयोः ॥ २११३ ॥ Śabdaratnākara 4.1.2113
- वैजयन्ती भोगभोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः । फणे देहे च सर्पस्य वेश्यादीनां भृतावपि ॥ ४४ ॥ Vaijayantī 6.1.44
- वैजयन्ती धृतिधारास्त्राग्रेंऽबुसंतत्यां सैन्याग्रेऽश्वगतिष्वपि । धीता सुतायां बुद्धौ च धृतिः सौख्येऽपि धारणे ॥ २० ॥ Vaijayantī 6.2.20
- वैजयन्ती भद्रअन्नतत्परयोर्भक्तं भद्रं कल्याणसौख्ययोः । मन्दाः सरोगनिर्भाग्यस्वल्पाज्ञापटुसूर्यजाः ॥ ६० ॥ Vaijayantī 6.5.60