व्योष
vyoṣaक्ली · neut.In 10 kośas: 8 synonym verses, 8 as a meaning of another word.
त्रिकटु त्र्यूषणं व्योषमजाजी जीरकः कणा ।
अनुष्टुप्
genderक्लीneut.
त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
सौवर्चलस्तु रुचकः कुस्तुम्बुरु च धान्यकम् ।त्रिकटु त्र्यूषणं व्योषं हिङ्गु रामठ उच्यते ॥ ६१७ ॥
अनुष्टुप्
genderक्लीneut.
राहुच्छत्रं च भद्रं च कटु चार्द्रकमित्यपि ।कटुकन्दं शृङ्गवेरं कटुभद्रं तु आर्द्रकम् ॥पिप्पलीविश्वमरिचैस्त्रिकटु स्यात्कटुत्रयम् ।व्योषं त्र्यूषणमेतत्तु सग्रन्थि चतुरूषणम् ॥पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।पञ्चकोलं समरिचं त्वेतदुक्तं षडूषणम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
त्र्यूषणं त्रिकटु व्योषं त्रिकटुकञ्च कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टु (wrong syllable)
genderक्लीneut.
मरिचं पिप्पली शुण्ठीयुतमेतत् कटुत्रिकम् ।त्रिकटु त्र्यूषणव्योषत्र्यषणञ्च कटुत्रयम् ॥
अनुष्टुप्
genderक्लीneut.
त्रिकटु त्र्यूषणं व्योषं कणामरिचनागरैः ।त्रिफलामलकी पथ्या विभीतकमिति त्रयम् ॥ १४६२ ॥
अनुष्टुप्
genderक्लीneut.
लोहाख्यं श्यामवल्ली च त्र्यूषणं (तूषणादिकम्) ।कावेरं त्रिकटु व्योषमप्यं कालं कटूत्कटम् ॥ ८० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
व्योष as a meaning in nānārtha verses
- कोषकल्पतरु कटुककटुकं कटुरोहिण्यां द्वंद्वेऽल्पे सर्षपे व्योषे । चलुकश्चुलकश्च द्वौ प्रसृतौ भाण्डप्रभेदे च ॥ ३७ ॥ Koṣakalpataru 6.1.37
- नानार्थार्णवसंक्षेप कोलतनुत्वे न पुमांस्त्वेष मेघे कोलं पुनर्नपि । व्योषेऽर्धकर्षे तक्कोले शुण्ठ्यां च बदरीफले ॥ २८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.288
- नानार्थार्णवसंक्षेप कटूत्कटकटूत्कटं तु क्ली व्योषेऽप्यार्द्रकेऽपि त्रिषु त्वदः । उत्कटे कटुनाऽथो ना शालिभेदे कलापकः ॥ १५६ ॥ Nānārthārṇavasaṃkṣepa 6.156
- शिवकोष कटुककटुका राजिका तुम्बी करञ्जी रोहिणीषु च । क्लीबं कङ्कोलकव्योषत्रपुषे सर्षपे पुमान् ॥ १८ ॥ Śivakoṣa 1.3.18
- शब्दरत्नावली कटुकाकटुका कटुरोहिण्यां स्त्रियां व्योषे तु न द्वयोः । कटुकोऽस्त्री क्षुद्रशत्रौ मत्स्यादीनाञ्च कीकसे ॥ Śabdaratnāvalī 7.1.41
- शब्दरत्नाकर कोलकोलोऽस्त्री चव्यपिप्पल्योः पुमान् खञ्जे प्लवे किटौ । क्लीबे तक्कोलबदरव्योषशुण्ठीषु कर्षके ॥ १८८५ ॥ Śabdaratnākara 4.1.1885
- वैजयन्ती कोलगुह्येऽण्डे वेष्टके पेश्यां पुस्तकासिपिधानयोः । कोलं बदरतक्कोलशुण्ठीव्योषेऽर्धकर्षके ॥ १६ ॥ Vaijayantī 6.5.16
- वैजयन्ती त्रिवर्गत्रिवर्गस्त्रिफला व्योषं स्थितिवृद्धिक्षया अपि । तमोनुदोऽग्निचन्द्रार्कास्तक्षकौ नागवर्धकी ॥ २८ ॥ Vaijayantī 7.1.28