जीरक
jīrakaपुं · masc.In 19 kośas: 18 synonym verses, 1 as a nānārtha head word, 21 as a meaning of another word.
त्रिकटु त्र्यूषणं व्योषमजाजी जीरकः कणा ।
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आर्द्रकं शृङ्गवेरं स्यादजाजी जीरकः स्मृतः ।वेल्लजं मरिचं प्रोक्तमूषणं च मनीषिभिः ॥ ६१६ ॥
अनुष्टुप्
genderपुंmasc.
जीरके तु जया तु स्यात् सूक्ष्मसौदो रसः कणः ।कृष्णे तु जीरके पृथ्वी रोहिण्यां कटुरोहिणी ॥ २७६ ॥
अनुष्टुप्
genderक्लीneut.
कडम्बश्च कलम्बोऽपि जीरो जीरक उच्यते ।ग्रन्थीकं ग्रन्थिकं च स्यात् शुल्बी शुल्विरुभे समे ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
मागधो जरणो दीप्यो जीर्णो जीरकजीरणौ ।बह्निसस्योप्यजाजी स्त्री श्वेतायाम् तत्र वै कणा ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
अजाजी युज्यमाना स्याद्दीर्घको जीरकोऽस्त्रियाम् ।कणा च कणजीरश्च जरणो मेध्यमित्यपि ॥ ९४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
जीरके तु कणाऽजाजी जरणः कणजीरकः ।कृष्णेऽस्मिन् कारवी पृथ्वी सुगन्धा सुषवी पृथुः ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
कणाजाजी जीरकश्च चविका कोलवल्ल्यपि ।चव्यं च चविकं प्रोक्तं श्रेयसी गजपिप्पली ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
जीरके जीरणो जीर अ(आ?)जाजी वाथ कृष्णके ।सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिके ॥ ४५५ ॥
अनुष्टुप्
genderपुंmasc.
अञ्जीरकं कीटफलं मिहिकोदुम्बराह्वयम् ।जीरकं शीतलं गन्धि मेथिका कटुवीजिका ॥ २१७ ॥
अनुष्टुप्
genderक्लीneut.
उषणं स्यादूषणञ्च वल्लिजं कोलकञ्च तत् ।स्याज्जीरो जीरकोऽजाजी जरणः स्त्रीकणापि च ॥
अनुष्टुप्
genderपुंmasc.
ग्रन्थकं शिरोऽनादन्तः क्ली सान्तं चटकाशिरः ।व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरकौ ॥ ५९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रोऽ (wrong syllable); pāda 3, syllable 4 क (wrong syllable)
genderपुंmasc.
जीरणो जरणः कणः जीरकः कृष्णजीरके ।सुषवी दन्त्यमूर्धन्यतालवयान्तर्गता पृथुः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 क (wrong syllable); pāda 4, syllable 2 लव (syllable split)
genderपुंmasc.
द्रोणस्तु द्रोणिका छत्रा चक्षुष्या द्रोणपुष्पिका ।जीरको जरणो हृद्योऽजाजिः कृष्णे तु जीरके ॥ ६४४ ॥
अनुष्टुप्
genderपुंmasc.
तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः ।जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥
अनुष्टुप्
genderक्लीneut.
खरसोल्लः खरपात्रं शिङ्घाणं काचभाजनम् ।काष्ठलोही तु वातर्दिर्जीरको दीप्यकः स्मृतः ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
पंचकोलं कणाशुण्ठीचव्यग्रन्थिकचित्रकाः ।अजाजी तु जया दीप्यो जीरको जीरणः सितः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
जीरक as a meaning in nānārtha verses
- धरणिकोश कणागणः स्यात्प्रमथे संघे संख्यासैन्यप्रभेदयोः । क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु । कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा ॥ Dharaṇikośa 14.2.6
- कोषकल्पतरु कणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- कोषकल्पतरु पृथुनील्यां स्त्र्यथ स्याद्द्रवनिष्पवायां क्वाथो विपाके व्यसने च दुःखे । पृथुस्तु वैश्वानरराजभेद- त्वक्पत्रिका मेचकजीरके ना । त्रय्यां महत्येष हुताशने तु तुत्थः पुमानञ्जनगस्तु षण्ढे ॥ ९५ ॥ Koṣakalpataru 6.18.95
- नानार्थार्णवसंक्षेप कणाकणा स्त्री जीरके सूक्ष्मजीरकेऽप्यपरे विदुः । पिप्पल्यां च द्वयोस्तु स्यान्मर्त्यजात्यन्तरे क्वचित् ॥ १३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.131
- नानार्थार्णवसंक्षेप कालीतासामन्यतमायां च कथयामास सज्जनः । पिप्पलीवृश्चिकाल्योश्च नीव्यां कृष्णे तु जीरके ॥ १८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.182
- नानार्थार्णवसंक्षेप जयावचाजीरकतर्कारीष्वथ स्तम्बान्तरे जपा । रक्तपुष्पे जपाख्येऽथो उपांशूच्चारणे पुमान् ॥ ४५२ ॥ Nānārthārṇavasaṃkṣepa 2.5.452
- नानार्थार्णवसंक्षेप दीप्यत्रिषु भिन्ने च भीते च दीर्णं दीप्ता तु विद्युति । स्त्रियां प्रज्वलिते तु त्रि दीप्यस्तु नरि जीरके ॥ ६०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.602
- नानार्थार्णवसंक्षेप स्वामिन्स्वामिन्यनृपवंशोत्थराजपत्न्यां तथा पुनः । नाट्योक्तिराजपत्न्यां च जीरकोशनसोस्तु ना ॥ १५०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1508
- नानार्थार्णवसंक्षेप जरणजीरके तु पुमान् कृष्णजीरके रभसोऽपठीत् । अना तु जरयत्यर्थे जरणाथो जरन्तवाक् ॥ ७७२ ॥ Nānārthārṇavasaṃkṣepa 4.772
- नानार्थार्णवसंक्षेप मागधमगधानां तु ना राज्ञि जीरकेऽप्यथ माधवः । विष्णौ वैशाखमासे च वसन्ते चाजयो नरि ॥ १३९२ ॥ Nānārthārṇavasaṃkṣepa 4.1392
- परमानन्दीयनाममाला कणाकुणिर्वृक्षे कुहस्तेऽथ पिप्पल्यां जीरके कणा । काकं काकसमूहे च योषितां करणान्तरे ॥ ८४ ॥ Paramānandīyanāmamālā 5.7.84
- परमानन्दीयनाममाला जरणजरणो जीरके नीरे रुचके कृष्णजीरके । जम्भलो देवताभेदे जम्बीरेऽपि निशम्यते ॥ २०४ ॥ Paramānandīyanāmamālā 5.13.204
- शिवकोष दीपकतिलकं मेचके ना तु पटोलश्रीमतोस्तिले । दीपको यवसाह्वायां जीरके लोचमस्तके ॥ ३० ॥ Śivakoṣa 1.3.30
- शिवकोष पीतककुसुम्भे जीरके चाथ स्त्रियां कोशातकीभिदि । निशाकूष्माण्डयूथीषु किङ्किराते तु पीतकः ॥ ३६ ॥ Śivakoṣa 1.3.36
- शिवकोष मागधन्यग्रोधस्तु वटे शम्यां मोहनैरण्डयोः स्त्रियाम् । मागधो जीरके स्त्री तु गृष्टियूथीकणासु च ॥ २३७ ॥ Śivakoṣa 15.2.237
- शिवकोष हृद्यगन्धविषायां च विषे स्त्री तु मत्स्याक्षीमत्स्यपित्तयोः । हृद्यगन्धं च रुचके ना तु बिल्वाम्रजीरके ॥ २४२ ॥ Śivakoṣa 15.3.242
- शिवकोष मेध्यमेध्या ब्राह्मीशङ्खपुष्पीगन्धाढ्यारोचनासु च । वचायां पीततैलायां वेल्ले मेध्यं तु जीरके ॥ ३४५ ॥ Śivakoṣa 21.1.345
- शिवकोष सुषवीसुषवी कारवेल्ले स्याज्जीरके कृष्णजीरके । Śivakoṣa 24.2.6
- शब्दरत्नावली जरणजरणो जीरके जीर्णे कृष्णे सौवर्चलेऽपि च । जरणं हिङ्गुनि ख्यातं क्लीबं स्यादोषधीभिदि ॥ Śabdaratnāvalī 7.15.36
- शब्दरत्नावली मागधपरिधिः पुंसि यक्षद्रुशाखायामुपसूर्यके । मागधः क्षत्रिया वैश्यजाते जीरकवन्दिनोः ॥ Śabdaratnāvalī 7.19.31
- त्रिकाण्डशेष कणापिप्पली द्रौपदी कृष्णा हस्तसूत्रेपि कङ्कणम् । श्रुतिराधेययोः कर्णः पिप्पल्यां जीरके कणा ॥ १२४ ॥ Trikāṇḍaśeṣa 3.3.124